________________
१४२
[ द्वादशाध्याये सत्त्वादिप्रकृतौ संस्था, नकधा सर्वसाधवः । मयि संन्यस्तकर्माणः, सर्वविश्वस्य पावकाः ॥ सर्वविश्वोपकाराय, त्यागधर्मो मयाऽऽदृतः। भूत्वा त्यागेन सर्वज्ञस्तारयामि जगजनान् ॥ मत्पश्चात्सर्वसाधूनां, जैनाचार्याः प्रवर्तकाः । यद्योग्यं तच्च कुर्वन्ति, देशकालाऽनुसारतः ॥ सर्वदेशेषु गच्छन्ति, जैनधर्मप्रचारकाः । धर्माचारविचाराणां, कुर्वन्ति परिवर्तनम् ।। केचिद्धयानं प्रकुर्वन्ति, समाधि यतयोऽपि के। उपदेशकराः केचित् , केचिजापपरायणाः ॥ केचिद्धर्मक्रियालीनाः, केचित्तपःपरायणाः। शास्त्राणां पाठकाः केचिद्वैयावृत्त्यकराश्च के ॥ - श्रोतारः केऽपि शास्त्रस्य, केचिद्धर्मस्य वादिनः । धर्मप्रभावकाः केचिज्जैनधर्मस्य रक्षकाः ॥ संघोन्नतिकराः केचिच्छास्त्रागारस्य रक्षकाः । लेखका धर्मशास्त्राणां, व्याख्यानेषु च तत्पराः ॥ देवतोपासकाः केचित् , केचियंत्रादिकारकाः । विद्याध्ययनकर्माणः, केचिच्च भक्तिकारकाः ॥ षडावश्यककर्माणः, कुर्वन्ति तीर्थरक्षणम् । आचार्याज्ञां गृहीत्वा च, वर्तन्ते सर्वसाधवः ॥ गुरुनिश्रासु शास्त्राणां, केचिद्भ्यासकारकाः । सर्वदेशविहारेण, धर्मव्याख्यानकारकाः । सर्वदेशेषु साधूनां, विहारः सार्वकालिकः। सर्वदेशस्थलोकानामुपकाराय देशितः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org