________________
१३८
[ एकादशाध्याये शुभाऽशुभविपाकेषु, समभावो महातपः । तथैव ये तपस्यन्ति, मता मे ते तपस्विनः ॥ ११ देशाद्देशं परिभ्राम्य, ज्ञानदानं विवेकतः। प्रदेयं साधुभिः प्रोत्या, तत्तप एव कथ्यते ॥ जीवानां दुःखनाशार्थ, मनोवाकाययोगतः । क्रियते कर्म तत्सर्व, तप एव सुखावहम् ॥ कषायाँस्तापयत्याशु, द्रव्यतो भावतश्च यत् । तत्तपः सर्वलोकानामात्मशुद्धिप्रदायकम् ॥ कायवीर्यस्य संरक्षा, कर्त्तव्या सर्वशक्तितः । सर्वत्र शक्तिदं सत्यं, ब्रह्मचर्य महातपः ॥ राष्ट्रादिवाह्यधर्माणां, नैसर्गिकव्यवस्थया । वर्तनं भव्यलोकानां, तपः सर्वत्र शान्तिदम् ॥ बाह्यान्तधभरक्षार्थ, स्वात्मभोगादिकं शुभम् । निःस्पृहत्वं तपः प्रोक्तं, मुक्तिदश्च मनीषिणाम् ॥ १७ सत्यं तपः क्षमा चैव, दया सर्वत्र देहिनाम् । सर्वथा सर्वकायषु, निरासक्तिमहातपः ॥ सर्वजातिसमाजानां, सुखार्थ यद्विधीयते । तप एतन्मया प्रोक्तं, भव्याः कुरुत भक्तितः॥ वासनायाः परित्यागस्तच्चारित्रं महातपः । प्राप्यते तेन मद्रूपं, सर्वत्र सर्वधर्मिभिः ॥ सर्वतपाप्रकारेषु, साम्यमेव महातपः। साम्यं प्राप्य शिवं यान्ति, सर्वधर्मस्थदेहिनः ॥ २१ प्रायश्चित्तं तथा वैयावृत्त्यं संघस्य रागतः । कायोत्सर्गो मनास्थैर्य, देवानामभिवन्दनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org