________________
एकादशाध्याये तपोयोगः तपः क्लेशकरं पूर्व, परिणामे सुखप्रदम् । तपः शुद्धिकरं प्रोक्तं, ज्ञानदश्च तपोविधिः॥ तपसा देवताः सर्वाः, साहाय्यं कुर्वते नृणाम् । तस्मात्तपांसि सर्वाणि, विधीयन्तां यथारुचि ॥ तपोयोगेन सर्वेषां, चित्तशुद्धिः प्रजायते । तपोयोगो महायोगो, मोहादीनां विनाशकः ॥ मोहरोधस्तपः श्रेष्ठं, मनोवाकायकर्मसु । दुःखानां सहनञ्चैव, सर्वाऽवस्थासु देहिनाम् ॥ पूर्वभवनियद्धानां, कर्मणां नाशकारकम् । तपः श्रेष्ठं सदा सेव्यं, मोक्षार्थिभिर्जनैः सदा ॥ सर्वकर्त्तव्यकार्येषु, स्वात्मभोगो महातपः। स्वसुखस्य परित्यागः, परार्थ तप उच्यते ॥ त्रिधा तपो जनैज्ञेयं, सात्त्विकं राजसं तथा । तामसं तत्र मोक्षाय, सात्त्विकं भव्ययोगिनाम् ॥ त्रिधा तपस्विनो ज्ञेयाः, संपूज्याः सात्विका जनैः। मोक्षार्थिभिः सदा सेव्यं, योगिभिः सात्त्विकं तपः॥ ८ तपोयोगस्य ये भेदाः, सेव्यास्ते सर्वमानवैः । दुर्ध्यानस्य भवेन्नाशस्तपोयोगान्मनीषिणाम् ॥ तपस्तदेव संसेव्यं, मोहोदयविनाशकृत् । ज्ञानादीनां समभ्यासो, महातप उदाहृतम् ॥
૧૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org