________________
तपोयोमः ]" स्पर्शादीनां सुखत्यागः, सत्सु भोगेषु कर्मणाम् । उपवासादिकं ध्यानं, तपः कर्मविनाशकृत् ॥ सर्वजातितपःप्राप्तिर्मदाज्ञापालनाद्भवेत् । सर्वभक्तैश्च तपश्चर्या, कर्तव्या स्वीयशक्तितः॥ सर्वविश्वसमाजानां, प्रगत्यर्थ मदात्मकैः । यत्किञ्चित्कियते सर्व, कर्मयोगतपः शुभम् ॥ सर्वदेशमजासंघस्वातन्त्र्यादिविकासने। अभिग्रहादिकं कर्म, तप एव महात्मनाम् ॥ मदीयसर्वजैनानां, प्रगत्यर्थ मनीषिभिः । मनोवाकायसत्ताभिः, क्रियते तन्महातपः ॥ सर्वजातीयजैनानां, संख्याऽस्तित्वादिवृद्धये । लक्ष्मीसत्तादिभिः कर्म, क्रियते तन्महातपः॥ सर्ववर्णमहानसंघ एवाऽस्म्यहं प्रभुः। अतः संघोन्नतेः कर्म, तपोयोगो महात्मनाम् ॥ चतुर्विधमहासंघर:वास्ति महातपः । युद्धेन विद्यया लक्ष्म्या, सेवया तच्च साध्यते ॥ साम्राज्यमान्तरं बाह्य, जैनानां यद्धरातले । वृद्धये तस्य यत्सर्व, क्रियते तन्महातपः ॥ मूरिवाचकसाधूनामस्तित्वादिप्रवृद्धये । यादृशं तादृशं कर्म, क्रियते तन्महातपः ॥ एकता सर्वजैनानां, कर्त्तव्या तन्महातपः। कलौ सर्वप्रकारेण, संघसेवा महातपः ॥ जैनसंघमहातीर्थसेवैव सर्वशक्तितः । महातपः शुभं ज्ञेयं, मदुक्तं नान्यथा कदा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org