________________
१३४
स्त्रय ॥
[ दशमाध्यायाः सिद्धयन्ति सर्वसंकल्पा, वीर्यतेजखिनः सदा । सर्वमन्त्राश्च सिद्धयन्ति, ब्रह्मचर्यमहौजसा ॥ ब्रह्मचर्य धृतं येन, तेनैव सकलं धृतम् । नास्त्यन्यच्छीलतातुल्यं, प्राप्त्यर्थ परमात्मनः॥ ब्रह्मचर्य विना नास्ति, कदापि स्वोन्नतिः शुभा। अतः सर्वबलेनैव, वीर्यरक्षा विधीयताम् ॥ सर्यकर्त्तव्यसिद्धयर्थ, ब्रह्मचर्य निषेव्यताम् । चिन्तामणिश्च काम्यानां, प्राप्त्यर्थ तजगत्त्रये ॥ सर्वोन्नतिमहामंत्रं, ब्रह्मचर्य समाचरेत् । सर्वविज्ञानसिद्धयर्थ, तद्विना नास्ति कश्चन ॥ साहाय्यं यस्य संप्राप्य, जनाः स्युः सिद्धयोगिनः । धर्मस्य पुनरुद्धृत्य, समर्था ब्रह्मचारिणः ब्रह्मचर्येण संकल्प-सिद्धिर्भवति निश्चयात् । तत्प्राप्य विधिवल्लोकाः, प्राप्नुवन्ति समाधिताम् ॥ २८ ब्रह्मचर्यमहाकल्पः, स्वर्गसिद्धिप्रदायकः । योगसिद्धः समाख्यातो, मया विश्वहितैषिणा ॥ सर्वयोगस्य सिद्धयर्थ, ब्रह्मचर्यस्य मुख्यता। मयोक्ता परमब्रह्म-महावीरेण तत्त्वतः॥ ब्रह्मचर्याश्रमः श्रेष्ठः, सर्वाश्रमशिरोमणिः । पुत्राणां चैव पुत्रीणां, गृहस्थाश्रमसिद्धये ॥ ब्रह्मचारिगणे श्रेष्ठा, नैष्ठिकब्रह्मचारिणः । ऊर्ध्वरेतोमहावीर्याः, किं किं नो कर्तुमीश्वराः॥ ३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org