________________
ब्रह्मचर्ययोगः ] द्रव्यब्रह्म प्रबोद्धव्यं, वीर्यमेव स्वभावतः । भावब्रह्म न संप्राप्य, द्रव्यब्रह्म विना कदा ॥ समाधिर्ब्रह्मचर्येण, प्राप्यते नैव संशयः। सर्वविद्याप्रकाशार्थ, वीर्यरक्षैव कारणम् ॥ वीर्यरक्षव बोद्धव्या, द्रव्यतो ब्रह्मचर्यता। वीर्यरूपमहाशक्तिः, सर्वदुःखविनाशिनी ॥ वीर्यरक्षैव चारित्र्य, यस्याऽस्ति तस्य जन्मनः । साफल्यं सततं ज्ञेयं, निश्चयेन महीतले ॥ ब्रह्मचर्यप्रतापेन, प्रजापुष्टिर्भवेत् सदा । धर्मकार्यप्रगत्यर्थ, ब्रह्मचर्य विधीयताम् । ब्रह्मचर्यमहादेवः, सर्वशक्तिप्रकाशकः। ब्रह्मचर्यमहाशस्त्रं, सर्वदुष्टविनाशकम् ॥ ब्रह्मचर्यमहातीर्थ, विश्वोन्नतिविधायकम् । ब्रह्मचर्यमहातेजो, विश्वव्यापकशक्तिदम् ॥ सर्वरोगप्रणाशाय, ब्रह्मचर्य महौषधम् । पूर्णज्योतिःप्रकाशाय, ब्रह्मचर्य महारविः ॥ ब्रह्मचर्य खभावेन, सम्यग्धर्मप्रभावकम् । तेजस्सु यन्महातेजो, बलेषु यन्महाबलम् ॥ ब्रह्मचर्य महासत्वं, सर्वसत्वप्रकाशकम् । वीर्यरक्षा कृता येन, ब्रह्मचारी जगत्प्रभुः॥ प्रकाशते स्वतेजोभिर्वपुःश्री ब्रह्मचारिणः । यस्य दृष्टयां महाशक्तिर्भासते ब्रह्मतेजसा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org