________________
दशमाध्याये ब्रह्मचर्ययोगः ब्रह्मचर्यमहाधर्मः, सर्वशक्तिप्रकाशकः । नैष्ठिकब्रह्मचर्येण, सिद्धयन्ति सर्वसिद्धयः ॥ सन्नितिमहाबीजं, केवलं वीर्यरक्षणम् । अतः सर्वशुभोपायः, कर्त्तव्यं वीर्यरक्षणम् ॥ विस्फोटकप्रमेहाद्या, रोगाः स्युर्व्यभिचारिणाम् । मनोवाकाययोगानां, दौर्बल्यं वीर्यनाशतः ॥ चक्षुस्तेजःक्षयश्चैव, कासश्वासादिरोगता। तथायुषः क्षयो नूनं, वीर्यनाशान्नृणां भवेत् ॥ वीर्यनाशस्थ कर्तृणां, निजवंशपरम्परा । जायते धर्मनाशाय, पारतन्त्र्ययुता भुवि ॥ वीर्यनाशोऽस्त्यनाय, देहशक्तिविनाशकः । राजयक्ष्मादिरोगाणां, निदानश्च निगद्यते ॥ ब्रह्मचर्येण देहस्याऽऽरोग्यं भवति निश्चितम् । आयुवृद्धिर्वपुःकान्तिर्वर्चः सिद्धिश्च सर्वथा ॥ धर्मदेशोन्नतेमलं, विद्यासंघोन्नतेबलम् । ब्रह्मचर्य ध्रुवं ख्यातं, सर्वदैव सुखप्रदम् ।। कर्त्तव्यं ब्रह्मचर्यायैराश्रमीयरक्षणम् । वीर्येण ब्रह्मसंप्राप्तिः, कथितं सर्वयोगिभिः ॥ ब्रह्मचारी विशेषेण, कर्मयोगरतो भवेत् । स मनःशान्तिरक्षायै, भवेद्भीष्मपितामहः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org