________________
दानयोगः ] दानेन क्षीयते पापं, शुभो भावः प्रवर्द्धते। संपदा स्थिरता नैव, जायते दानमन्तरा ॥ सकामभावदानेन, भवाः स्युः शर्मदायिनः। निष्कामदानतो नित्यं, मत्प्राप्तिर्जायते नृणाम् ॥ यद्यद्भावेन यो दत्ते, तद्भावं लभते जनः । धनधान्यादिदानेन, स्वर्गमुक्तिसुखं ब्रजेत् ॥ मत्प्राप्तिनतः प्रोक्ता, स्वपरार्थी च सिद्धयतः। त्यागसिद्धेः शुभः स्वार्थो, भवेन्नो दानमन्तरा ॥ ब्रह्मचर्यतपोभावा, आत्मज्ञानादयस्तथा । जायन्ते दानतः शीघ्र, मदाझैवं सनातना ॥ दानेन संवरश्चैव, दानतः कर्मनिर्जरा । तपोजपाऽधिकं दानं, विना कष्टेन शर्मदम् ॥ दयाभेदास्तथा सर्वे, भवन्ति दानसंस्थिताः। साहाय्यं सर्वथा कार्य, दानेन सर्वदेहिनाम् ॥ सत्तातो मत्समान् जीवान्सर्वान् यो गणयेजनः।। एकेन दानयोगेन, स प्रान्ते मत्समो भवेत् ॥ मनोवाकायवित्तादि-दानमाहात्म्यतो जनाः। अनन्तसुखसंन्तानं, प्राप्नुयुस्तीर्थकृत्पदम् ॥ नानाविधानि दानानि, सेवध्वं नरयोषितः । दानयोगेन सर्वेष, सिद्धिर्भवति निश्चला ॥ स्वाऽधिकारवशाइक्ता, दानं कुर्वन्ति शक्तितः। यथायोग्यविवेकेन, मदाज्ञावशवर्तिनः ॥ इति श्रीजैनमहावीरगीतायां श्रीदानयोगनामको
नवमोऽध्यायः समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org