SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १ नवमाध्याये दानयोगः सर्वयोगेषु दानस्य, श्रेष्ठत्वं भुवनत्रये । सदाने त्यागसंवासो, नश्यन्ति क्लेशराशयः ॥ तदानं त्रिविधं प्रोक्तं, सात्त्विकं राजसं तथा । तामसञ्च यथापूर्व, तेषामुत्तममुच्यते ॥ सत्त्वप्रधानं यदानं, सात्विकं तत्प्रचक्ष्यते । रजस्तमःप्रधानं यदानं राजसतामसम् ॥ सुपात्रं चाऽभयं दानं, पञ्चदानेष्वनुत्तरम् । मद्भक्तिनिषु अष्ठा, धर्मिणस्ते प्रकीर्तिताः ॥ ज्ञानदानप्रदातारः, स्वरूपं प्राप्नुवन्ति मे । शुभान्भवान्समासान, पश्यन्ति नैव दुर्गतिम् ॥ त्यागिभ्यः साधुवर्गेभ्यो, यः प्रयच्छति भक्तितः । स्वर्ग मुक्तिश्च मज्ज्ञानं, लभते मज्जनोऽञ्जसा ॥ मत्प्राप्त्यर्थमहो दान-तुल्यं नाऽस्त्यपरं भुवि । दानिषु परमब्रह्म-प्रादुर्भावः प्रजायते ॥ दानेन व ते शीलं, रागो नश्यति दानतः। देहबुद्धिसमुत्पन्नो, मोहस्तेन विलीयते ॥ सर्वस्वदानकर्तृणां, समो नाऽन्यो जगत्त्रये । अहङ्काराविहीनस्य, दातुः सिद्धिः सदा मता ॥ दुःखिदरिद्रदेहिभ्यो, यो दत्त दानमुत्तमम् । फलन्त्याशाः सदा तस्य, विश्वपूज्यश्च जायते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy