________________
ब्रह्मचर्ययोगः ] सर्वजातीयविद्यानां, प्राप्त्यर्थ ब्रह्मचारिणः । समर्था सर्वदा ब्रह्म-प्राप्त्यर्थ च विवेकतः ॥ वीर्यरक्षणयोगेन, भवन्ति सर्वसिद्धयः । दीर्घायुःकारणं वीर्य-रक्षैव सर्वदेहिनाम् ।। भवेत्संकल्पसंसिद्धिरूवरेतोमहात्मनः। सर्वोपायैरतः कार्या, वीर्यरक्षैव शक्तिदा ॥ वीर्यवद्भिरहं प्राप्यो, दर्शनज्ञानरूपवान् । द्रव्यवीर्य सदा बोध्यं, भाववीर्यस्य कारणम् ।। ज्ञानादिसर्वशक्तीनां, 'प्रगत्यर्थ जगत्त्रये । मज्ज्योतिर्दर्शनार्थञ्च, ब्रह्मचर्य सदा मतम् ॥ पक्ववीर्यस्य सत्पुत्रा, भवन्ति कर्मयोगिनः । अपक्ववीर्यसन्तानीनपुत्रपरम्परा॥ धर्मदेशोदयादीनां, हेतवा ब्रह्मचारिणः। ब्रह्मचर्याश्रमाः स्थाप्याः, सर्वत्र शक्तिहेतवे । युक्ताहारविहाराद्यैः, प्रभवन्त्यूर्ध्वरेतसः । प्राणायामादिसद्योगैरूर्ध्वरेतोमहाजनाः ॥ ब्रह्मचर्यस्य रक्षाया, देशकालाऽनुसारतः । भवन्ति हेतवो ये ये, ते ते सेव्याः प्रयत्नतः ॥ सर्वदा सर्वथा त्याज्या, वीर्यनाशकहेतवः । पुत्राणां च सुपुत्रीणां, योग्यलग्नव्यवस्थया ।। विद्यादिधर्मसंस्कारैर्वीयसंस्कारता भवेत् । यादृग्वीर्यादिसंस्काराः, पुत्राद्या अपि तादृशाः॥
४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org