________________
.
शक्तियोगः ] चतुर्विधस्य संघस्य, शक्तिवर्द्धककर्मसु । पापं नैवाऽस्ति सदवुद्धथा, देशकालाद्यपेक्षया ॥ दोषाः सन्ति न सदबुद्धया, सर्वकर्त्तव्यकर्मस्तु । कर्तव्येतरकर्माणि, सदसदबुद्धयपेक्षया॥ ७२ संघादिशक्तिलाभार्थ, सदबुद्धया सर्परीणाम् । कर्तव्यताऽधिकारोऽस्ति, जैनानां धर्मरागिणाम् ॥ ७३ विद्यन्ते शक्तयो या या, जैनधर्मिविरोधिनाम् । ताभ्योऽनन्तगुणा शक्तिः, प्राप्या जैनः प्रयत्नतः ॥ ७४ शक्तिवर्द्धककर्माणि, जैनधर्मिविरोधिनाम् ।। तेभ्योऽधिकानि कर्माणि, जैनैः साध्यानि युक्तितः ॥ ७५ सर्वशक्तिसमाहारो, जैनधर्मिविवृद्वये। ज्ञातव्यः सर्वसंघेन, संघाय शक्तिधारिणा ॥ जैनसंघप्रगत्यर्थ, जैनानां सर्वकर्मभिः । पुण्यानुबन्धिपुण्यस्योद्भवः स्वर्गश्च मुक्तता ॥ जैनानां वंशवृद्धयर्थ, देशकालाऽनुसारतः । सन्मार्गा युक्तितः कार्या, स्वोन्नतेः परिवर्त्तनैः ॥ पूर्वतीर्थङ्करैः प्रोक्तो, जैनधर्मः सनातनः । तदुद्धाराय शक्तीनामाविर्भावो निवेदितः॥ मया सर्वज्ञवीरेण, जैनधर्मः प्ररूपितः । सर्वविश्वस्य रक्षार्थ, जैनानामुपयोगिता ॥ अतो जैनैः प्रगत्यर्थ, सर्वशक्तिव्यवस्थया । मदाज्ञा खात्मभोगेन, पालनीया विवेकतः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org