________________
१२८
अष्टमाध्याये जैनोन्नतिविरुद्धा या, संघशक्तिविनाशिका । दयाऽपि जैनसंघस्य, हिंसारूपाऽस्ति वस्तुतः ॥ व्यावहारिकधार्मिकोन्नतिरूपा दया शुभा। जैनानां सर्वशक्तीनां, नाशकोऽधर्म उच्यते ॥ जैनानां सर्वशक्तीनां, धारको धर्म उच्यते। महासंघस्य रक्षायां, सर्वे धर्माः सुरक्षिताः ॥ जैनधर्मप्रगत्यर्थ, कर्मणां धर्मरूपता। ज्ञातव्या सर्वकालेषु, मच्छ्रद्धाधारकैः सदा ॥ विरक्ति व कर्तव्या, शक्तिवर्द्धककर्मसु । ज्ञानवैराग्ययोगेन, भोग्यकर्मस्वसंगता ॥ निष्कामत्वात्प्रवर्त्तन्ते, सर्वभोगेषु भोगिनः । गृहिजैनाः स्वशक्तीनां, नाशका नैव बोधतः॥ -- ८७ देहादिसर्वशक्तीनां, नाशकारककर्मणाम् । व्यभिचारादिदोषाणां, त्यागाज्जैनाः समर्थकाः ॥ ८८ सर्वशक्तिषु लब्धासु, मदादिकप्रमादता । जैनैः कदापि नो सेव्या, सर्वधर्मविनाशिका ॥ परस्परं न संख्याः , सज्जैनैः सर्वशक्तयः । शुभोपयोगः शक्तीनां, कर्त्तव्यः शक्तिवर्द्धकः ॥ ९० योजनानां व्यवस्थाभिः, सर्वशक्तिपरम्परा। अनुक्रमेण संवाह्या, देशकालानुसारिका ॥ संघार्थ सकलं स्वीयं, मन्तव्यं सर्वमानवैः । इत्येवं भावना भव्या, मुक्त्यर्थ कर्मयोगिनाम् ॥ ९२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org