________________
१२६
. [ अष्टमाध्याये उच्चा केचित्तथा नीचा, मनुष्याः कर्मभेदतः । उच्चत्वं नैव नीचत्वं, ज्ञानादितारतम्यतः ॥ ज्ञानादिशक्तियोगेन, जैनानामुच्चता शुभा । तद्रक्षार्थ प्रयत्नेन, यतितव्यं विशेषतः ॥ ज्ञानादिशक्तिलब्ध्यर्थ, सर्वसंधेन यत्नतः। सर्वकर्तव्यकर्माणि, कर्तव्यानि दिवालिशम् ॥ संघस्थैक्यं सदा रक्ष्य, समयमनीषिभिः। संधैक्यभेदको द्रोही, मनस्य विनाशकः ॥ उदाराचारसबोधैर्मधर्मस्य विशालता। संरक्ष्या वर्द्धितव्या च, सदाख्यानप्रबन्धकैः ॥ देशकालाऽनुसारेण, जनैः संघबलेन च ।। उपाया व्यवहारेण, शक्तिवर्द्धककर्मणाम् ॥ साधनीया विशेषेण, धर्मतीर्थस्य वृदये। कर्त्तव्यो न प्रमादांशस्तत्र मोहेन मजः ॥ चतुर्विधेन सङ्घन, मिथः साहाय्यानन्वहम् । कर्त्तव्यं पूर्णसत्पीला, शक्तिवर्द्धककर्मसु ॥ शक्तिवर्द्धकजैनानामपवादोऽस्ति कर्मसु । विज्ञाय कर्म कर्त्तव्यं, देशाकालाऽनुसारतः ॥ पारतन्त्र्यं न संसेव्यं, शक्तिवर्द्धककर्मस्छु। प्रतिबन्धः सदा त्याज्यो, धर्म्यकर्मप्रवृत्तिषु ॥ स्वातन्त्र्यं जैनधर्मस्य, सर्वस्वाऽर्पणशक्तितः। संपाद्यं सर्वदा जैनैः, स्वातन्य शक्तिसंवतः॥ जैनानां कोटिभोगेन, रक्षणीया स्वतन्त्रता। कोटिजैनस्य संवृद्धिः, पुनः स्वातन्त्र्यशक्तिभिः ॥ ७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org