________________
शक्तियोगः ] यततां सर्वजैनानां, धर्मकामादिकर्मसु । सर्वस्वाऽपकमुख्यानां, सर्वसिद्धिं करोम्यहम् ॥ उद्योगं ये न कुर्वन्ति, सर्वकर्त्तव्यकर्मणाम् । भाविभावादिसक्तानां, जनानामुन्नतिः कथम् ।। मन्नाममन्त्रवेत्तृणामपि निष्क्रियवादिनाम् । जैनानां शक्तिता जैव, मदुक्तेषु प्रमादिनाम् ।। उद्योगो मे महा शक्तिथिरूपा सनातना। तद्विमूढा अशक्ताश्च, जानन्ति मां न वस्तुतः॥ सर्वजातीययत्नेषु, शक्तयः परमात्मनः। धर्मदेशप्रजादीनां, नृतत्वं शक्तिमन्तरा ॥ मद्धर्मो वृद्धितामेति, शक्तयो यत्र तत्र तु। वृद्धयादिहीनजनानां, मृतत्वं धर्महीनता ॥ अतो जैनैमदुक्तानां, परिघुद्वय रहस्यताम् । सर्वजातीयशक्तीनां, कर्तव्यः पूर्णसंग्रहः ॥ मदुक्ते संशयानां तु, विनिपातो विजायते । शक्तियोगं विना जैनाः, प्रस्खलन्ति पदे पदे ॥ महासत्तां श्रयन्ते ते, धर्योद्योगपरायणाः । ये लजन्ति सदुद्योगं, मां त्यजन्ति स्वरूपतः॥ यदभाव्यं तद्भवत्येव, नास्तिकानां मतिर्बुवा। आस्तिका यत्नमुख्येन, मां श्यन्ति विशेषतः ॥ नीचत्वं पूर्णदौर्भाग्य, श्रयन्ते ते जनाऽधमाः । उद्योगाये परिभ्रष्टा, मच्छद्धाशून्यमानवाः॥ शक्तिवर्द्धककर्माणि, सर्वाग्यपि स्वभावतः।। उच्चानि नैव नीचानि, शूद्वादिस्वाऽधिकारतः ॥
५६
५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org