________________
१२४
[ अष्टमाध्याये जेनरुपायतः साध्यं, दुष्टेभ्योऽप्यधिकं बलम् । धर्मनाशकदुष्टानां, सद्यो नैव पराजयः॥ धर्मनाशकदुष्टानां, शक्तिभ्योऽधिकशक्तयः । युक्तिप्रयुक्तिभिः प्राप्या, देशकालाऽनुसारतः ॥ ३६ देवाधर्मसमाजानां, नाशार्थ दुष्टयुक्तयः। दुष्टः प्रवर्तिता यास्तु, निवार्यास्ताः सुयुक्तितः॥ ३७ मुद्यन्ति नैव भोगेषु, सत्तादिकेषु सज्जनाः। विद्यादिबलसम्पन्ना, जैनाः स्युः शक्तिरक्षकाः ॥ कायवीर्यादिसंरक्षा, कुर्वन्ति योग्यकर्मभिः । कायवीर्यादिभिहींना, जैना नाशाऽभिसंमुखाः ॥ जैना जयन्ति निर्मोहाः, सर्वजातीयसहलैः। स्वातन्त्र्यं सर्वजातीय, साम्राज्यञ्च अयन्ति ते ॥ शक्तिमन्तः सदा जैना, जयं कुर्वन्ति सर्वथा । शत्रूणां विजये जैनाः, प्रसिद्धा गुणकर्मतः ॥ पराजयन्ति ते जैना, देहादिशक्तिदुर्वलाः । दुर्यलाः किं करिष्यन्ति, स्पर्धाकाले विधर्मिणाम् ॥ ४२ क्षावादिबलसंयुक्ता, जैनराजादयो जनाः । गृहकर्माणि कुर्वन्तो, मां श्रयन्ति स्वशक्तितः ॥ मद्रचनेषु ये शङ्कां, कुर्वन्ति दुष्टनास्तिकाः । अधोगतिं श्रयन्ते ते, धर्मसाम्राज्यनाशतः ।। सर्वेषां मम भक्तानां, भक्तियोगः शुभप्रदः। पूर्णश्रद्धाबलेनैव, सेव्यो विश्वहितावहः ।। सर्व जातीयशक्तीनां, मिदानं पुरुषार्थता । उद्योगिनः सदा जैनाः, सर्वकर्तव्यकर्मसु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org