________________
१२३
शक्तियोगः ] धर्मदेशाऽभिमानत्वं, कर्तव्यं स्वात्मशक्तिदम् । स्वाश्रयित्वं सदा कार्य, संघाय स्वाऽर्पणं तथा ॥ २३ संपाद्या यत्नतः स्वस्मिन् , विद्यादिसर्वशक्तयः। शक्तिहीना न जीवन्ति, स्पर्धायां सबलैः सह ॥ २४ भक्ष्यमेव बलिष्ठानां, बलहीना निसर्गतः। सबलत्वं सदा साध्य, मनोवाकायशक्तिभिः॥ २५ बलमाध्यात्मिकं साध्यं, भौतिकं व्यवहारतः । व्यक्तिशक्तिप्रणाशोऽस्ति, समष्टिशक्तितः सदा ॥ २६ समष्टिशक्तिमालम्ब्य, जैना जीवन्ति युक्तितः। धर्मदेशसमाजानां, सर्वकर्मव्यवस्थया ॥ बलं विद्यासमं नास्ति, रक्षणं क्षात्रकर्मतः। जीवच्छक्तिस्वरूपोऽस्ति, व्यापारो वैश्यकर्मणाम् ॥ २८ सेवाधर्मः सदा श्रेष्ठः, कर्तव्यो मातृबुद्धितः । वर्णकर्माणि सर्वाणि, सेवन्ते कर्मयोगिनः॥ सर्वशक्तियुतो योगो, जनको धर्मकर्मणाम् । धर्मसाम्राज्यवृद्धयर्थ, श्रयन्ते तं विवेकिनः ॥ धर्मकर्माणि कर्तारः, क्लिश्यन्ते नैव योगिनः । स्वधर्ममेव कुर्वन्ति, परधर्म श्रयन्ति न ॥ पश्चात्त्वं न अयन्ते ते, जैना युद्धादिकर्मसु । शक्त्यर्थ धयंयुद्धादि-कारका दुष्टवारकाः ॥ विश्वस्वातन्त्र्यरक्षार्थ, सर्वकर्मविधायिनः । जैनाः सदा जयं यान्ति, शक्तियोगाऽवलंबनात्॥ ३३ न्याय्यस्पर्धाभिरासेव्यं, महत्त्वं सर्वशक्तिदम् । स्पर्धा विना न शक्तित्वं, शक्त्या धर्मादिरक्षणम् ॥ ३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org