________________
१२२
[ अष्टमाध्याये स्वतन्त्र एव मद्धर्मः, सर्वजीवसुखावहः । पारतन्त्र्यमधर्मस्तु, यद्ग्राह्यं तत्समाचरेत् ।। सदाचारविचारेषु, स्वातन्त्र्यं सर्वशक्तिदम् । पारतन्त्र्यं महानृत्युं, जित्वा मद्भक्तिमाचरेत् ॥ . १२ जैनसाम्राज्यशक्तीनां, रक्षणं सर्वशक्तितः। संघसत्ताव्यवस्थार्थ, कर्त्तव्यं शक्तियोगिभिः ॥ जीवच्छक्तिस्वरूपोऽस्ति, मद्धर्मो व्यवहारतः। साधितव्यः प्रयत्नेन, विश्वकल्याणकारकः ॥ विश्वदेशसमाजानामग्रणीत्वं स्वशक्तितः । कर्त्तव्यं सर्वधर्माणां, रक्षार्थ मजनैः सदा ॥ क्रूराणामग्रणीत्वेऽस्ति, सतां नाशो न संशयः । .. अल्पदोषो महालाभो, जैनानामग्रणीत्वतः ॥ जैनानामग्रणीभावो, देशराज्यादिरक्षकः । यत्र धर्मो जयस्तत्र, धार्मिकाणां प्रधानता ॥ देशराज्यसमाजानां, सत्तादिपरिहारतः । जैनधर्मस्य साम्राज्यं, नष्टं भवति सर्वथा ॥ जैनधर्मस्य साम्राज्ये, नष्टे हानिः सधर्मणाम् । अतो राज्यादिसद्योग नाः सत्तादिसाधकाः ॥ अग्रणीत्वं सदा रक्षध, क्षात्रविद्याधनादिभिः । 'अहंममत्वसंत्यागात् , सत्ताद्या नैव बन्धकाः॥ पापभीत्या न सन्त्याज्या, जैनैः सत्तादिकाः खलु। सत्तादिसर्वकर्माणि, कर्तव्यानि विवेकतः ॥ सर्वजातीयसज्जैनैरग्रणीत्वं स्वशक्तितः। कर्त्तव्यं धर्मसाम्राज्य-प्रगत्यर्थ विशेषतः ॥ २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org