________________
अष्टमाध्याये शक्तियोगः शक्तियोगसमो योगो, न भूतो न भविष्यति । धीश्रीकान्त्यादिवासायां, शक्त्यां स्वातन्त्र्यमात्मनः॥ १ शक्तिरेव महाधमः, सर्वजातीययोगिनाम् । एवं ज्ञात्वा महायोगी, शक्तिधर्म समाचरेत् ॥ जैनसंघविवृद्धयर्थ, वेषाचारादिनव्यता। कर्तव्या शक्तियोगेन, देशकालाद्यपेक्षया । स्वतन्त्रकर्मभि द्या, व्यावहारिकशक्तयः । विश्वस्वातन्त्र्यरक्षार्थ, सर्वधार्मिकशक्तयः॥ येन केन प्रकारेण, आन्तराः सर्वशक्तयः। धर्मिणां दुर्बलानाच, संपाद्या धर्मवृद्धये ॥ पारतन्त्र्यं सदा त्याज्यं, रक्ष्यं स्वातन्त्र्यमात्मनः । पारतन्त्र्यावरं मृत्युः, स्वातन्त्र्याजीवनं वरम् ॥ स्वतन्त्रतायां नष्टायां, नष्टं सर्व बलादिकम् । देशधर्मसमाजानां, स्वातव्यं सर्वशान्तिदम् ॥ परतन्त्रजना नष्टा, मृत्युभीतिपराः सदा । देहादिभीतिभिः सर्वे, परतन्त्रा विमोहिनः॥ स्वस्वकर्माऽधिकारेण, स्वस्वकर्त्तव्यकर्मसु । निर्मोहा निर्भया लोकाः, स्वातन्त्र्यरक्षकाः सदा ॥ कलाभिश्च बलैर्लोका, धारयन्ति स्वतन्त्रताम् । निष्कला निर्बला लोका, वहन्ति दास्यतां सदा ॥ १०
૧૦
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org