SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १२० [ सप्तमाध्याये सार्वजनिकशिक्षाभिः, संस्काराः शक्तिदायकाः । कर्त्तव्या देशकालाऽनुसारेण सर्वकोविदैः ॥ तीर्थस्थानेषु मद्भक्तः, पूर्णवित्तोपयोगतः। विद्यापीठादयः स्थाप्याः, सर्वयोग्यप्रबन्धकैः ॥ मत्तद्भेदो न कर्त्तव्यः, सर्वजातीयशिक्षणे। योग्यस्य योग्यविद्यादि-दानं देयं मनीषिभिः ॥ परतन्त्रनिराधार-बालानां योग्यशिक्षणे । देयं ज्ञानादिकं दानं, तद्धि मत्प्राप्तिहेतुकम् ॥ मेघवृक्षनदीभानु-भूमिवन्मजनैः सदा । लक्ष्म्यादीनां शुभं दानं, कार्यमौदार्यभावतः ॥ बहिरन्तः शुभज्ञान-स्वरूपं द्रव्यभावतः । मत्वा मां मजनैः शिक्षा, ग्राह्या देयश्च शिक्षणम् ॥ ५२ मदुक्तशिक्षणः सर्वैजैनधर्मोन्नतिप्रदः । जैनशासनशोभार्थ, जनैः स्थेयं यदा तदा ॥ इति श्रीजैनमहावीरगीतायां श्रीशिक्षायोगनामकः सप्तमोऽध्यायः समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy