________________
शिक्षायोमः ] दुष्टाशयाः शठास्त्याज्याः, शिक्षकास्तु विधर्मिणः । मद्भक्ताः शिक्षका ग्राह्याः, पूज्या वित्तादिदानतः॥ ३५ विद्याविवेकसम्पन्ना, विनयेनान्विताः शुभाः। क्षेत्रकालज्ञमध्यस्था, मद्भक्ताः सत्यशिक्षकाः ॥ सर्वजातीयनीतीनां, शिक्षणं मजनैर्मुदा। ग्रायं कालाऽनुसारेण, मुख्यगौणविभागतः ॥ अष्टमं वर्षमारभ्य, पुत्रादीनां विवेकतः। दातव्यं शिक्षणं सम्यग, मद्भक्तिज्ञानपूर्वकम् ॥ सूरिपाठकसाधूनां, पार्श्वे स्थित्वा विवेकतः । मदीयधर्मशास्त्राणां, शिक्षा ग्राह्या मनीषिभिः॥ बहिरन्तरधश्वोच्चैः, सर्वत्र परिभाव्य माम् । धर्मस्य शिक्षणं ग्राह्य, नरनारीजनैः सदा ॥ जैनशासनसाम्राज्य, मदीयधर्मशिक्षणात् । सर्वखाऽर्पणभोगेन, सर्वत्र व्याप्यते सदा ।। प्रवृत्तिशिक्षणं श्रेष्ठ, विशालदृष्टियोगतः। विश्वोन्नतिः कदा न स्यात्, प्रवृत्तिशिक्षणं विना ॥ ४२ शिक्षणेषु सदा श्रेष्ठ, धर्म्यप्रवृत्तिशिक्षणम् । अधशिक्षणं त्याज्यमशान्तिक्लेशदुःखदम् ॥ सर्वथा शिक्षणं देयं, जैनसाम्राज्यवर्द्धकम् । किश्चिच्छङ्का न कर्त्तव्या, मदुक्तेषु जनैः कदा ॥ मदुक्तसत्यबोधाद्ये, वक्ष्यन्ति निजजीवनम् । तेषां सर्वोन्नतेर्मार्गा, भविष्यन्त्यनुकूलकाः ॥ मदुक्तेषु प्रमादं ये, करिष्यन्ति विमोहतः । तेषामात्मादिशक्तीनां, विनिपातो महान्भवेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org