________________
[ सप्तमाध्याये विद्याबलेन जायेत, तत्त्वज्ञानस्य योग्यता। तत्त्वज्ञानेन मत्प्राप्तिमत्प्राप्त्या कर्मसंक्षयः ॥ न्यायोपार्जितवित्तान्न-योगाचित्तस्य शुद्धता । चित्तशुद्धया भवेद्विद्या, तत्प्राप्तिगुरुसंगत ॥ विंशतिवर्षपर्यन्तं, विद्यागुर्वाश्रमे स्थितिः। कर्तव्या बालकैः सम्यग्-वीर्यरक्षणपूर्वकम् ॥ आत्मज्ञानस्य संप्राप्तिः, कर्त्तव्या गुरुभक्तितः । सर्वजातीययुद्धस्य, विद्या प्राप्या प्रयत्नतः ॥ सर्वजातीयवाणिज्य-कृषियंत्रादिशिक्षणम् । शिक्षितव्यं विवेकेन, महालैावहारिकम् ।। विश्वस्थसर्वजीवानां, सेवामार्गा अनेकधा । तच्छिक्षणं समादेयं, परस्परोपकारकम् ।। विद्याभेदो न कर्त्तव्यो, मजनैः सर्वशिक्षणे ।
औदार्य सर्वदेशीय-शिक्षणेषु शुभङ्करम् ॥ विद्याभेदेन लोकानामुन्नतिनैव जायते । पुत्राणामिव पुत्रीणां, शिक्षणं सर्वशक्तिदम् ॥ भद्रंकरस्य धर्मस्य, शिक्षणं सुविवेकतः। दातव्यं सर्वजातीय-योग्यशक्तिप्रवर्द्धकम् ॥ सर्वजातीयविद्यानां, शिक्षाभिरुन्नतिर्भवेत् । बाह्यरूपेण महासस्तत्राऽस्ति नैव संशयः ॥ विद्याभिरुच्चतां यान्ति, पूज्यताश्च महाजनाः। सर्वभाषास्थविद्यानां, शिक्षा ग्राह्या प्रयत्नतः देशधर्मखजातीनामुन्नतेः कारकं शुभम् । विद्यार्थिनां प्रदातव्यं, शिक्षणं सर्वशक्तितः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org