________________
शिक्षायोगः ] गुणकर्मविभागेन, सर्ववर्णा मनीषिणः । यच्छिक्षणेन जायन्ते, तद्देयं शिक्षणं शुभम् ॥ सर्वविद्योन्नतेर्योग्य-शिक्षणस्य प्रचारणा। कर्तव्या मजनैः सर्वैः, पारम्पर्यप्रवर्तिका ॥ मदुक्तसत्यशिक्षाया, वैरिणो यान्ति नष्टताम् । विश्ववर्तिसमाजेषु, जीवन्ति नैव शक्तितः ॥ मदुक्तशिक्षणाददूरा, मद्भक्ता नाममात्रतः । पश्चात्त्वं यान्ति मूढास्ते, पारतन्त्र्योपजीविनः ।। प्राणान्तेऽपि न शिक्षास्त्यजन्ति ये महाजनाः। पारतन्त्र्यं न ते यान्ति, दुष्टानां सर्वयुक्तितः ॥ मदुक्तसर्वशिक्षाया, गुप्तव्यक्तविरोधिनाम् । सलाभासोपदेशेषु, मुह्यन्ति नैव मजनाः॥ मदुक्तसर्वशिक्षासु, विश्वासं यान्ति मजनाः । कुर्वन्ति न कदा शङ्कामुन्नतिं यान्ति वेगतः ॥ वित्तादिषु न मुह्यन्ति, मदुक्तसर्वशिक्षणात्। औदार्येण विजानन्ति, सर्वजीवान्निजात्मवत् ॥ मदुक्तसर्वशिक्षातस्तेषां जातिपरम्पराः । जीवन्ति शक्तिसाम्राज्य, वहन्ति चैव मजनाः ॥ धर्मार्थकाममोक्षाणां, शिक्षणं मजनैः क्रमात् । सर्वथा सर्वदा ग्रार्थ, जैनधर्मप्रचारकम् ॥ स्वात्मकुटुम्बजातीनां, पोषणार्थ मनीषिभिः। आर्थिकशक्तिवृद्धयर्थ, शिक्षा ग्राच्या विवेकतः ॥ स्वदेशपरदेशस्थ-शिक्षणस्य विवेकतः । विद्यापीठादयः स्थाप्या, दक्षाः कार्याश्च मजनाः॥ २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org