________________
सप्तमाध्याये शिक्षायोगः शिक्षायोगो महायोगः, सर्वयोगप्रकाशकः । शिक्षणं सर्वयोगाना, शिक्षायोगः सतां गुरुः ॥ सर्वजातीयविद्यानां, शिक्षणं शक्तिवृद्धये । वित्तदेहादिभोगेन, दातव्यं मजनैः सदा ॥ मद्भक्तानां गृहस्थानां, त्यागिनां च मदाप्तये । क्षेत्रकालाऽनुसारेण, दातव्यं शिक्षणं सदा ॥ द्वाससतिचतुःषष्टि-कलाशिक्षाप्तये जनैः। अर्पणं सर्वशक्तीनां, कर्तव्यं युक्तिशक्तितः॥ पुत्राणां बालिकानाच, व्यायामबलशिक्षणम् । दातव्यमात्मभोगेन, संघाऽस्तित्वप्ररक्षकम् ॥ ब्रह्मचर्याश्रमाः श्रेष्ठाः, स्थापितव्याः स्वभोगतः । ब्रह्मचर्यस्य रक्षार्थ, वर्तितव्यं व्यवस्थया ॥ संघधर्मसमाजानां, स्वातन्त्र्यादिकरक्षणे। योग्यं यच्छिक्षणं देयं, मजनैः शक्तिवर्द्धकम् ॥ मच्छूद्धोत्पादकं श्रेष्ठं, शिक्षणं सर्वशक्तिदम् । आबालवृद्धलोकेभ्यो, देयं सर्वप्रयत्नतः ॥ धर्मसंघस्वजातीनामस्तित्वार्थ महाजनैः । सर्वोन्नतेमहामूलं, देयं मद्धर्मशिक्षणम् ॥ मनोवाकायशक्तीनां, वर्द्धकं धर्मरक्षकम् । दातव्यं शिक्षणं सम्यगू, मद्भक्तैरात्मदानतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org