________________
संस्कारयोगः ] गुरुशिष्यादिसंबन्धाः, पूर्णप्रेमव्यवस्थिताः । यैरुद्भवन्ति ते योग्याः, संस्कारा मन्त्रभाविताः ॥ बाह्यान्तरविभेदाभ्यां, संस्कारा द्विविधा मताः । लौकिकेतरभेदाभ्यां, ज्ञेयाश्च द्रव्यभावतः॥ योग्यास्ते धर्मसंस्कारा, अधर्मिबलनाशकाः । युगे युगे महाशक्ति-दायका धर्मिवईकाः ॥ जैनसाम्राज्यसंस्कार नसाम्राज्यरक्षणम् । भवेज्जैनोन्नतिः पूर्णा, कलिनाशश्च तयुगे । सर्वसंघबलेनैव, जैनसाम्राज्यवर्द्धकाः । वर्द्धितव्याः सुसंस्काराः, स्पर्दा कालेषु शक्तिदाः ॥ ५१ शक्तिसंस्कारहीना ये, जैनास्ते नाममात्रतः । पश्चात्पतन्ति ते मूढाः, पारतन्यस्य वाहकाः ॥ ५२ मयि विश्वासिनः सम्यग , जैनाः संस्कारयोगतः।। कर्त्तव्यकममयुक्ता, उन्नतावग्रगामिनः ॥ सदगुर्वागमसद्बोधैः, संस्काराः शक्तिवर्द्धकाः। आराध्याः कर्मणां सर्वे, मजनैः पूर्णरागतः ॥ इति श्रीजैनमहावीरगीतायां श्रीसंस्कारयोगनामकः
षष्ठोऽध्यायः समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org