________________
११४
"
विद्यमानाऽन्यधर्मिभ्यो, विशेषशक्तिदायकाः । संस्कारा भावतः सेव्या, धर्मार्थकाममोक्षदाः ॥ मनोवाक्काययोगानां, संस्काराः शक्तिवर्द्धकाः । आत्मतत्त्वस्य संस्काराः, सेव्या द्रव्यादितः सदा ॥ कुटुम्बजातिवृद्धयर्थ, संस्कारा नव्यरूपतः । सेवितव्याः सदा सद्भिर्धर्म्याचारसुधारकैः ॥ जैनसंख्या विवृद्धयर्थ, संस्कारा वार्त्तमानिकाः । योग्यास्ते स्वात्मवीर्येण कर्त्तव्याः सर्वकर्मसु ॥ आचाराश्च विचारा ये, योग्यशक्तिप्रदायकाः । मत्तत्त्वस्याविरोधेन, संस्कारास्ते प्रदर्शिताः ॥ शक्तिरूपाः सुमार्गा ये वर्त्तमानसमुद्भवाः । संस्कारास्ते प्रबोद्धव्याः, सर्वशक्तिसमर्पकाः ॥ त्यागिनां सर्वसंस्काराः, प्रत्यक्षशक्तिवर्द्धकाः । आचारेषु विचारेषु, विधातव्या विवेकतः || आचाराः परिवर्त्तन्ते, त्यागिनां देशकालतः । परिवर्तनसंस्काराः, शक्तिदास्त्यागिनां मताः ॥ वेषाचारोपदेशेषु, संस्कारा वार्त्तमानिकाः । नव्यशक्तिप्रदाः श्रेष्ठास्त्यागिनां जैनशासने ॥ धर्मशास्त्रादिशास्त्राणां सर्वकर्मप्रवृत्तिषु । परिवर्तन संस्काराः कर्त्तव्या नव्यशक्तिदाः ॥ aarग्रहो न कर्तव्यो नव्यशक्तिप्रवृत्तिषु । देशकालादिसापेक्षा, संस्काराः सर्वकर्मणाम् ॥ पूर्वाऽपराविरोधेन, संस्कारा धर्मरक्षकाः । मद्धर्मो रक्ष्यते यैस्ते, संस्काराः सिद्धिदायकाः ॥
5
Jain Education International
,
[ षष्ठाध्याये
For Private & Personal Use Only
३५
३६
३७
३८
३९
४१
४२
४३
४४
४५
४६
www.jainelibrary.org