SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ संस्कारयोग: ] मय्येवैकाग्रचित्तानां, मनुष्याणां स्वभक्तितः । धर्म्यलग्नेन पुत्राचा मद्वर्मार्था महौजसः ॥ गृहिजैनगृहस्थानां, स्वाऽधिकाराइलप्रदाः । संसेव्याः सर्वसंस्काराः, सर्वदोषविनाशकाः ॥ संसेव्या योग्य संस्कारास्त्यागिभिः स्वाऽधिकारतः । संस्काराणां रहस्यानि, ज्ञातव्यानि विशेषतः ॥ धर्मार्थकाममोक्षाणां, संस्काराः स्वाऽधिकारतः । ज्ञानयोगेन कर्त्तव्या, राष्ट्रादिवलवर्द्धकाः ॥ अशुद्धराग सन्त्यागो, वैराग्यं सैव कथ्यते । शुद्धरागादिसंस्काराः कर्त्तव्याः सर्वशक्तिदाः ॥ दुर्गुणानां परित्यागो, गुणसंस्कार एव सः । क्षात्रादिवल संस्काराः कर्त्तव्या विश्वरक्षकाः ॥ सर्वजातीयसंस्कारा, धार्मिका व्यावहारिकाः । तारतम्यविवेकेन, सेव्याः सर्वजनैः सदा ॥ सदबुद्धया योग्यसंस्काराः, सेवनीयाः प्रयत्नतः । अल्पदोषमहाधर्म-पूर्वकं बुद्धियोगतः ॥ अधिकारोऽस्ति सर्वेषां सांस्कारिकेषु कर्मसु । उपेक्षा नैव कर्त्तव्या, मूढतादिप्रसंगतः ॥ नव्यशक्तिप्रदानेन, सुसंस्कारस्य योग्यता । शक्तिप्रदानहीना ये, संस्कारा नैव ते मताः ॥ देशभाषादिसंस्काराः कर्त्तव्या उपयोगिनः । सर्वव्यापकशक्तीनां, संस्काराः सर्वसंमताः ॥ शुभव्यापकशक्तीनां प्राप्त्यर्थ मज्जनैः सदा । तद्योग्य सर्वकर्माणि कर्त्तव्यानि प्रयत्नतः ॥ Jain Education International " , " " For Private & Personal Use Only ११३ २३ २४ २५ २६ २७ २८ २९ ३१ ३२ ३३ ३४ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy