SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ११२ विश्वसमाजशान्त्यर्थ, रक्षार्थञ्च विवेकिभिः । सर्वजातीयविद्यानां, संस्कारः क्रियते शुभः ॥ धर्ममूलक संस्काराः, सर्वविश्वस्य शान्तिदाः । अधर्मादिविनाशाय, संस्काराणां प्रयोजनम् ॥ जैनराजादिसंवृद्धि, संस्काराज्जायते सदा । ज्ञानपूर्वक संस्काराः, सर्वत्र शक्तिदा मताः ॥ मातापित्रोः समानत्वं, विचाराचारसाम्यतः । द्वयोः साम्यस्य संस्कारात्पुत्रादिसंततिः शुभा ॥ मातापित्रोर्विचाराणामाचाराणां विशेषतः । संस्कारास्तनुजादीनां सुष्ठु शक्तिविधायकाः ॥ पक्ववीर्यादिसद्योगैर्लग्नप्रामाण्यमिष्यते । अन्यथा दुर्व्यवस्थाभिः सर्वशक्तिक्षयो भवेत् ॥ अपक्ववीर्यसन्तानैर्धर्मसंस्कारवर्जितैः । धर्मराज्यादिशक्तीनां नाशो दास्यश्च सन्ततेः ॥ अपक्ववीर्यदम्पत्योः, पुत्रादीनां परम्परा । जैनधर्मिविनाशाय, विद्यादीनां क्षयाय च ॥ " Jain Education International " पक्ववीर्यबलादीनां, संस्काराणां प्रवृत्तयः । सेवितव्या विशेषेण, धर्मोद्धाराय मज्जनैः ॥ कदापि नैव कर्त्तव्या, बाललग्नादिरीतयः । पक्ववीर्यादिसंस्काराः, सेव्या मद्वर्मधारकैः ॥ समानधर्मदम्पत्योः पुत्राद्या धर्मधारकाः । अन्यथा धर्मसांकर्यमन्यदोषाश्च देहिनाम् ॥ मदाज्ञावर्त्तिनां नृणां सर्वसंस्कारयोग्यता । जायते धर्मवृद्धयर्थ, स्वाऽधिकारव्यवस्थया ॥ " " For Private & Personal Use Only [ षष्ठाध्याये ११ १२ १३ १४ १५ .१६ १७ १८ १९ २० २१ २२ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy