________________
षष्टाध्याये संस्कारयोगः मनोवाकायभेदेन, संस्कारास्त्रिविधाः स्मृताः । पुनस्ते कार्ययोगेन, बहुधा वर्णिता भया ।। संस्काराज्जायते शुद्धिः, शक्तिः संजायते ततः । शक्त्या कार्याणि सिद्धयन्ति, बीजादिवाङ्करादयः॥ सर्वजातीयसंस्कारा, विद्यादिशक्तिदायकाः । कर्तव्या मंत्रयोगेन, जैनानां प्रगतिप्रदाः ॥ गर्भाधानादिसंस्कारा, आत्मशक्तिप्रकाशकाः । ब्राह्मणायैर्विधातव्या, जैनधर्मिविवर्द्धकाः ।। गर्भाधानादिसंस्कारान्कुर्वन्ति मदुपासकाः। ते मद्भक्ताः सदौन्नत्यं, प्राप्नुवन्ति न संशयः ॥ सम्यक्त्वसंस्कृति त्यक्त्वा, मद्भक्तो नैव जायते । अशुद्धहृदयोऽरक्तः, स्वर्गसिद्धिं न सेवते ॥ सम्यक्त्वसंस्कृतेर्योगान्मत्साहाय्यं सदा मतम् । गुरुकृपासहायेन, जैनदीक्षां व्रजेजनः ।। आचाराणां विचाराणां, सुसंस्कारपरम्परा । देशकालाऽनुसारेण, संस्कार्या शक्तिवर्द्धिका ।। संस्कृतिः सर्वशक्तीनां, संस्कारः सोच्यते शुभः । राष्ट्रादिसर्वधर्माणां, पुनः संस्कारयोग्यता ॥ सर्वजातीयजैनानामुद्धारो निजकर्मभिः । यथा भवेत्तथा कार्याः, संस्काराः प्रगतिप्रदाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org