________________
१०८
[ पश्चमाध्याये अन्तर्वत्त्या जिनीभूय, जिनमाराधयन्ति ये । जिना भवन्ति ते शीघ्रमिलिका भ्रमरी यथा ॥ ४४३ मत्पश्चाज्जैनसंघेषु, गच्छभेदा अनेकशः। भविष्यन्ति कलौ तत्र, मोहः कार्यो न मजनैः ॥ ४४४ वस्त्रक्रियाविभेदेन, पश्यन्ति नैव भेदताम् । सर्वगच्छीयजैनास्ते, निर्गच्छा अन्तरात्मनः ॥ ४४५ सर्वगच्छीयजनान् ये, मद्धत्पश्यन्ति मानवाः । भेदाँश्च नैव पश्यन्ति, ते जैना यान्ति मत्पदम् ॥ ४४६ गच्छक्रियादिभेदेषु, स्थितोऽहं नैव वस्तुतः। स्थितोऽहं सर्वजनेषु, मच्छ्रद्धाभक्तिवर्तिषु । ४४७ मद्रागिसर्वजातीया, जैनाः स्युर्मनुजादयः । परब्रह्मस्वरूपं मां, ये भजन्ति स्वभावतः ॥ ४४८ मद्विश्वासितलोकानां, गुणोदघाटनकारकाः । बाह्यक्रियां विना जैनाः, पश्यन्ति मां स्वभावतः ॥ ४४९ मत्पश्चाये कलौ लोका, वय॑न्त्येवं सुबोधतः । भविष्यन्ति समर्थास्ते, विश्वोद्धाराय भावतः ॥ ४५० धर्मशास्त्रं समालम्ब्य, क्रियादिभेदमोहतः । द्विषन्ति भेदवुद्धया ये, पश्यन्ति मां न ते जनाः ॥ ४५१ गच्छक्रियादिभेदेन, संघभेदविधायिनः। मद्धर्म नैव जानन्ति, मां पश्यन्ति न वस्तुतः ॥ यादृशास्तादृशा जैना, अर्हन्तः सन्ति सत्तया । तदात्मसु कृतो देषो, महापापाय जायते ॥ यात्यक्रियाविभेदेऽपि, नैव भेदोऽस्ति धर्मिणाम् । मत्सम सर्वजातीय-जेनानां दर्शनं शुभम् ॥ ४५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org