________________
४५८
४५९
नीतियोगः ]. वस्त्रवेषक्रियाचार-तिथिमन्तव्यभेदतः । परस्परं न मुह्यन्ति, जैनाः शुद्धात्मदर्शिनः ॥ मदैक्यं सर्वजनेषु, जैनाः पश्यन्ति वस्तुतः । बाह्यभेदान्न पश्यन्ति, जैनधर्मस्य घातकान् । क्लिश्यन्तो बाह्यभेदेषु, सरिवाचकसाधवः । आत्मतत्त्वं न जानन्ति, जैनशासनघातकाः॥ मत्प्राप्तौ बाह्यभेदानां, वस्तुतो नैव हेतुता। मदभेदेन मत्प्राप्तिः, सर्वगच्छविवर्तिनाम् ॥ साध्यसिद्धिर्भवेत्तेषां, सत्यमार्गविलोकिनाम् । येषां क्रियादिभेदेषु, नैव किश्चिददुराग्रहः ॥ कलावेतादृशा जैना, जैनधर्मस्य साधकाः । भविष्यन्ति मदाज्ञातो, विश्वधर्मप्रचारकाः॥ मदभेदेन जैनेषु, जिनेन्द्रबुद्धिधारकाः। परस्परं नमस्यन्तो, मत्पदं यान्ति भावतः॥ शुद्धभावोपयोगेन, कलौ तु पूर्णरागतः । प्राप्योऽहं शुद्धबुद्धीनां, बाह्यभेदेषु सत्स्वपि ॥ मन्नामजापकर्तृणामुपरि द्रोहकारकाः। भवेयुन कदा जैना, मताद्भिन्नाः परस्परम् ॥ आत्मवद्विश्वद्रष्टारो, जैना धर्मविवईकाः। सर्वदेशप्रजाश्रेयः-साधकास्तत्त्वदर्शिनः ॥ मनोवाकायवित्तादि-सहायेन परस्परम् । संघोन्नतिं प्रकुर्वाणा, जैना यान्ति शिवं पदम् ॥ यदाऽन्ध्यदृष्टितो बाह्य-धर्मसाम्राज्यवर्त्तनम् । तदा भवति जैनेषु, जडत्वं धर्मनाशकम् ॥
४६१
४६२
४६३
४६४
४६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org