SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १०७ ४३१ ४३३ नीतियोग: ] दृष्ट्वा परस्परं साधुन् , भिन्नाचारव्यवस्थितान् । परस्परं प्रकुप्यन्ति, साधवो न विवेकिनः ॥ मां वीरं हृदि पश्यन्ति, जैना विज्ञाः परस्परम् । ते जैना मजना बोध्या, शेषास्तु नामधारकाः ॥ नाम्नाऽपि जैनलोका ये, तेषु धर्मप्रचारकाः। तेषामुद्धारको भक्त्या, भवामि सर्वथा भवे ॥ दूषयन्ति मुनीन् द्वेषाद्भिन्नभिन्नगणस्थितान् । मर्मस्य रहस्यं ते, नैव जानन्ति वस्तुतः ॥ . दृष्ट्वा परस्परं जैनान् , नमस्कुर्वन्ति हर्षतः। .. साहाय्यश्चैव कुर्वन्ति, मजनास्ते विशेषतः ॥ विद्यान्नवस्त्रवित्तायैर्नव्यजैनविधायिनः । यादृशास्तादृशा जैना, भवन्ति मुक्तिगामिनः ॥ एकोऽपि श्रद्धया युक्तो, नव्यजैनो विधीयते। तेन विश्वस्थजीवानां, दत्ता निर्भयता खलु ॥ : सर्वधमैः फलं यत्स्यात् , तत्फलादधिकं जनैः। नव्यजैनविधानेन, प्राप्यते नात्र संशयः ॥ कृतेनैनेन जैनेन, नव्येन मजनैः फलम् । तीर्थोद्धारसमं ज्ञेयं, तीर्थकृन्नामबन्धकम् ॥ मन्नामजापकर्तृणां, दासाऽनुदासकिङ्कराः । भवन्ति मत्स्वरूपास्ते, जैना यान्ति परां गतिम् ।। आत्मभावेन पश्यन्ति, सर्वजीवान्विवेकिनः । जयन्ति दुर्गुणांश्चैव, जैनास्ते मत्पदाश्रिताः॥ रजस्तमोजयेनैव, जैना भवन्ति देहिनः । दुराशाविजयेनैव, जैनाः स्युजिनसेवकाः ॥ RU ४३८ ४४० ४४१ ४४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy