________________
१०६
[पञ्चमाध्याये सर्वतीर्थकरेभ्यो मद्विशेषोऽस्ति कलौ महान् । 'एकवारमपि ध्यानं, मम मुक्तिप्रदायकम् ॥ मत्स्वरूपविलीनानां, घोरपापात्मदेहिनाम् । मन्नाममंत्रजापेन, शुद्धत्वं जायते क्षणात् ।। एकोऽपि मे नमस्कारः, संसारपारकारकः । मतक्रियाविभिन्नानां, पूर्णरागतया कृतः ॥ ४२१ तारयितुं न योग्या ये, मया ते तारिता रयात् । कलौ मन्नाजापेन, तरिष्यन्ति जनाः क्षणात् ॥ ४२२ अध्यात्मज्ञान विद्यानां, प्राकटयं पूर्णरूपतः । कृतं विश्वोपकाराय, मया धर्मस्वरूपिणा ॥ सर्वकल्याणकर्ताऽहं, सर्वविश्वस्य तारकः । मत्प्रभावेण सर्वत्र, जैनं जयतु शासनम् ॥ गुगानुरागतो लोका, अहंन्तो मयि रागिणः । भवन्ति दोषिणोऽप्येते, निर्दोषा मुक्तिगामिनः ॥ ४२५ मयि गुणानुरागोऽस्तु, नश्यन्तु दुगुणा द्रुतम् । गुणानुरागिणो लोका, भवन्तु मत्पदाश्रिताः ॥ समानधर्मभक्ताय, कन्यां दत्ते स्वधर्मतः । साधर्मिकेषु वात्सल्यं, विदधाति स मे मियः ॥ जैनान्संदृश्य ये जैना, भवन्ति रोमहर्षिताः। सम्यक्त्वादिगुणास्तेषु, साता नैव संशयः ॥ ४२८ दृष्ट्वा परस्परं जैनान् , पूर्णहर्षाकुलाः खयम् । भवन्ति मज्जनास्ते तु, नाऽन्ये ये नाममात्रतः ॥ ४२९ दृष्ट्वा परस्परं साधून , भिन्नाचारसमाश्रितान् । पूर्णानन्दा भवेयुये, साधवो मे विवेकिनः ॥
४२४
४२६
४२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org