SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ नीतियोगः ] १०५ जन्ममृत्युजरातीतं, प्राणातीतं महाप्रभुम् । देहस्थमपि सद्धथानी, भिन्नं पश्यति निश्चयात् ॥ ४०७ धर्मार्थ जीवन श्रेष्ठ, पापार्थ नैव जीवनम् । यज्ञे गवादिहिसा तु, महापापाय जायते ॥ ४०८ पशुहिंसकयज्ञानां, निषेधः सर्वशक्तितः । कर्तव्यः सर्वसंघेन, यत्र तत्र मदाज्ञया ॥ यज्ञशब्देन पूजाया, अर्थो बोध्यो महाजनैः । आर्यवेदेषु यज्ञस्य, पूजार्थ सूचना कृता ॥ सर्वत्र जैनराज्येषु, तथाऽन्येषु स्वशक्तितः । पशुहिंसकयज्ञानां, निषेधः कारितो मया ॥ ४११ केषामप्यधिकारो न, जीवानां नाशने कदा । देहिनां नैव कर्ता यस्तद्धन्ता स कथं भवेत् ॥ जैनधर्मोपदेष्टणां, साहाय्यं सर्वदा शुभम् । पुण्याय सर्वलोकानां, जायते नैव संशयः ॥ ४१३ सर्वविश्वस्थलोकानां, स्वातन्त्र्यस्य समानता। तीर्थोद्धारः कृतस्तस्मात्तीर्थेशोऽस्म्यधुना महान् ॥ ४१४ जैनेतरेषु जनेषु, जिनेन्द्रोऽहं प्रभुर्महान् । द्रष्टव्यश्च निराकार, आत्मा निश्चयतो विभुः ॥ ४१५ परमात्मस्वरूपेण, सर्वविश्वस्थदहिनाम् । समानताऽऽत्मसत्तात, इष्यते व्यक्तितस्तथा ॥ ४१६ निश्चयात्सर्वजीवेषु, सर्वजातीयधर्मिषु । आत्मा श्रीपरमात्मैव, द्रष्टव्योऽर्हन्महाजनैः॥ ४१७ मदाज्ञा सर्वविश्वस्योपरि गर्जति सर्वदा । विश्वोद्धारकतीर्थेशो, मान्यः पूज्योऽस्मि सर्वथा ॥ ४१८ ४१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy