________________
१०४
[पञ्चमाध्याये साधर्मिकस्य संसेवा, पूर्णपुण्येन लभ्यते। जैना जिनेन्द्रवत्पूज्याः, साधर्मिकाश्च साधवः ॥ ६९५ कल्पते भोजनं कर्तुं, गृहस्थाश्रमधर्मिणाम् । साधूनां दर्शनं कृत्वा, भोजनदानपूर्वकम् ।। क्षुधात्तगहिसाधुभ्यो, दानं देयं यथायथम् । तेषां दुराशियो नैव, ग्राह्या.धर्मार्थिभिर्जनैः ॥ अन्नदान तथा स्थान, देयं तेभ्यः सुरागतः। उपग्रहोजरत मोक्षाय, श्वभ्राय परपीडनम् ॥ साध्वीभ्यः पूर्णरागेण, देथं निर्दोषभोजनम् । जैनरूपेण देवस्याऽऽगमो जैनगृहे भवेत् ॥ परस्परं नतिः कार्या, जैनधर्माभिमानिभिः । हस्तः परस्परं प्रीत्या, संमील्य व्यवहारतः ॥ परस्परं नतिः कार्या,हस्तौ संयोज्य साधुभिः । बाह्यक्रियाविभेदेऽपि, सवेबु ब्रह्मदर्शनात् ॥ कर्तव्या न कदा निन्दा, सर्वजैः परस्परम् । परेश्वरस्य सत्तातः, सर्वजीवेषु दर्शनात् ॥ ४०२ अन्योन्यसर्वजनानां, द्रोहः पापाय जायते । जैनेषु यः कृतो द्रोहो, जिनेन्द्रघातवद्भवेत् ॥ ज्ञात्वेति सर्वसंधेन, त्याज्यो द्रोहः क्षयङ्करः। संस्थितो हृदि यस्याहं, तत्र द्रोहो न तिष्ठति ॥ ४०४ आत्मैव परमात्माऽस्ति, सर्वत्र सर्वदेहिनाम् । अतः सर्वत्र जीवेषु, स्वात्मवद्दर्शनं वरम् ॥ निरञ्जनं निराकारं, महाज्योतिर्वपुःस्थितम् । ज्ञानहीना न पश्यन्ति, वात्मानं विवभास्करम् ॥ ४०६
-४००
४०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org