________________
३८३
३८४
नोतियोगः] चतुर्विधादिसंभेदैर्नीतिभी राज्यशासनम् । कर्त्तव्यं जैनभूपालैर्लोकतन्त्रादिगर्भितम् ॥ पुरुषाणाश्च नारीणां, यथायोग्यं कलाप्तये । विद्यालयव्यवस्थाभिर्वर्तितव्यं नृपादिभिः ॥ समुद्रोल्लङ्घनं श्रेष्ठं, विद्याव्यापारवृद्धये । जैनधर्मप्रचारार्थ, जैनधर्माऽभिमानिनाम् ॥ जैनधर्मप्रचारार्थ, प्रेष्या धर्मोपदेशकाः । द्वीपेषु चाऽन्यखण्डेषु, सर्वजातिप्रवन्धतः ॥ ३८६ उपेक्षा नैव कर्त्तव्या, जैनधर्मिविरोधिनाम् । तैः सार्दू शक्तिभिः स्थेयं, सावधानतया सदा ॥ ३८७ अभ्यागतानां सत्कारः, कर्त्तव्यः पूर्णरागतः । भोजनादिककर्त्तव्ये, लक्ष्यं देयं स्वमित्रवत् ॥ ३८८ अतिथीनां सदा दानं, देयं सत्कारमानतः । पूर्णोल्लासेन दानस्य, लभ्यते पूर्णसत्फलम् ॥ अतिथीनां सदा सेवा, कर्तव्या गृहिमानवैः। गृहवासफलं ज्ञेयमतिथेः सेवनं जनैः ॥ गृहस्थनरनारीणां, सेवाधर्मः सनातनः।। गृहागतस्य सत्पीत्या, देयं भोज्यादिकं जनैः ॥ ३९१ गुरुजनस्य सत्कारस्तत्सेवापूर्णरागतः । कर्त्तव्या स्वात्मभोगेन, त्यागिनाश्च विशेषतः ॥ अतिथीनां तिरस्कारः, कर्तव्यो न कदाचन । सर्वशक्तितया पोष्या, गृहस्थाश्रमवासिभिः ॥ ३९३ साधर्मिकमनुष्याणां, वैयावृत्यं विशेषतः । कर्तव्यं स्वात्मभोगेन, जैनधर्मस्य साधकः ॥
३
P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org