SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १०२ [ पञ्चमाध्याये गृहस्थजैनवर्गेण, रक्षायै जैनधर्मिणाम् ।। तत्कालोद्भवशस्त्राणां, कर्त्तव्य धारणं करे ॥ ३७१ शस्त्र विना न गन्तव्यं, यत्र तत्र भयस्थले । प्रतिपक्षविधर्माणां, समाजे तु विशेषतः ॥ ३७२ आध्यात्मिकबलस्यैक्य, कृत्वा जैनैर्यदा तदा । बाह्यशस्त्रादिभिर्युद्ध्वा, विजेतव्यं रणांगणे ॥ ३७३ धमिभिः प्राणधर्मादिरक्षार्थ सर्वयुक्तिभिः । अमिनिग्रहार्थाय, यतितव्यं महाजनैः ॥ ३७४ श्रेष्ठं संघबलस्पैक्यं, सर्वविश्वप्रशासकम् । धर्मार्थश्च कलौ श्रेष्ठमुन्नतेः परिवर्तनम् ॥ ३७५ कालप्रवाहतां ज्ञात्वा, लोकानां प्रकृति तथा । तत्त्वधर्माऽविरोधेन, जैनोन्नत्यै महाजनैः ॥ संघबाहुल्यमाश्रित्य, स्वोन्नतिपरिवर्त्तनैः। संस्कृत्य सर्वदा शक्तीर्वतितव्यं यदा तदा ॥ जैनानां शासनं श्रेष्ठं, शान्तिशर्मप्रदायकम् । अन्यधर्मस्थलोकानामपि शान्त्यादिहेतवे ॥ ३७८ बाह्यान्तरप्रभेदेन, जैनसाम्राज्यशासनम् । विश्वे स्वातन्त्र्यसन्नीति-समानत्वप्रदायकम् ॥ ३७९ दास्यभावविनाशार्थमुदाराचारहेतवे। जैनसंघस्य साम्राज्यं, रक्षणीयं प्रयुक्तितः॥ भाविनी जैनसाम्राज्य-शक्ती रक्ष्या सुयुक्तितः। सर्वविश्वप्रजातन्त्र-धर्मरक्षणहेतवे ॥ ३८१ जैनर्मिमहासंघ-बलाद्राज्यादिसंपदः । धर्मो रक्ष्यः सदा जनधैर्मात्सर्वसुखश्रियः ॥ ३७७ . .. N Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy