________________
नीतियाग: ]
कदाऽपि नैव दातव्या, जैनकन्या महाजनैः । जैनेतरविधर्मिभ्यो, धर्मभ्रंशादिपातकात् ॥ जैनधर्मस्य संस्कारैर्योग्यकन्या विधर्मिणाम् । सम्यक्त्वादियुताः कृत्वा, ग्राह्या वंशादिवृद्धये ॥ जैनाः सर्वत्र संस्पृश्या, महावीरस्य जापतः । भोजनादि यथायोग्यं, कल्पनीयं परस्परम् ॥ जैनराजस्तथा संघो, जैनानां न्यायकारकः । लग्नादिगृहकार्येषु सर्वत्र जैन नीतितः ॥ जैनोन्नतिप्रदो धर्मो, नाऽन्यः शक्तिविनाशकः । शक्तिवककर्माणि कर्त्तव्यानि यदा तदा ॥ प्रमादाजीविकादीनां कर्मसु दोषराशयः । भवन्ति सदिनाशार्थमावश्यकस्य सेवनम् ॥ पश्चात्तापेन निर्दोषा, भवन्ति जैनमानवाः । प्रतिक्रमणकृत्येन, संक्षयो दोषकर्मणाम् ॥ तीर्थस्थानेषु जैनानां, महासंघस्य भावतः । कर्त्तव्यं मेलनं सम्यैर्धर्तव्याख्यानहेतवे ॥ चतुर्विधमहासंधैजैन संख्यादिवृद्धये । रीतिभिः संस्कृताभिर्वै कर्त्तव्यं परिवर्त्तनम् ॥ सर्वसंघस्य रक्षायै, स्थाप्यो राजा मदाज्ञया । वर्त्तितव्यं महासंघैस्तारतम्यविवेकतः ॥ जैनधर्मप्रगत्यर्थ, महासंघस्य नायकम् । आचार्य प्रमुखं कृत्वा, महासंघेन शक्तितः ॥ कर्तव्याः सत्यसंस्कारा, धर्माचारेषु जीविताः । विषेया अन्यधर्मस्था, जैनधर्मानुयायिनः ॥
Jain Education International
For Private & Personal Use Only
१०१
३५९..
३६०%
३६१
३६२
३६३.
३६४
३६५..
३६६:
३६७
३६८
३६९.
३७०
www.jainelibrary.org