________________
१००
-
[पञ्चमाध्याये जैनधर्मः सदा सत्यः, सर्वधर्मशिरोमणिः । आत्मैव जैनधोऽस्ति, शाश्वतोऽनाद्यनन्तकः॥ ३४७ जैनधर्मे लयं यान्ति, बौद्धवेदान्तदृष्टयः । सर्वधर्मोदधिः पूर्णा, जैनधर्मः सनातनः ॥ ३४८ व्यष्टिसमष्टिरूयेण, द्रव्यतो भावतस्तथा । मद्धर्मः सर्वविश्वस्थ, तारको दुःखवारकः ॥ सर्वजीवोपरि प्रेम, शुद्धं यस्य प्रवर्तते । व्यष्टिसमष्टिरूपेण, जैनधर्मी स उच्यते ॥ प्रक्षालयन्ति जीवानां, दोषान् ये शुद्धरागतः । धौदार्यविचारेण, स्वात्मवद्विश्वदर्शिनः ॥ परोपकारकार्येषु, सर्वस्वाऽर्पणकारकाः । सर्वखण्डेषु देशेषु, जैनाः स्वातन्त्र्यरक्षकाः ॥ सर्वदेशेषु लोकानां, सर्वदुःखनिवारकाः । भेदबुद्धिं विना विश्व-सर्वकल्याणकारकाः॥ ३५३ मज्जैना जैनधर्मस्य, सदगुणैः स्युः प्रवर्तकाः । जैनत्वं सर्वजीवानां, कुर्वन्ति जिनसाधकाः ॥ ३५४ वन्ते सर्वदा जैनाः, परोपकारकर्मभिः । अतः सर्वप्रयत्नेन, वर्तितव्यं महाजनैः॥ ३५० गृहस्थगुरुभिजैनैर्देशकालानुसारतः । जैनानामुन्नतिर्यस्माद्भवेत्तत्तत्प्रवृत्तितः ॥ जैनोन्नतिः प्रकर्तव्या, व्यावहारिकशक्तिदा । जैनधर्मोपदेशेन, कर्त्तव्यं धर्मरक्षणम् ॥ जैनैः परस्परं लग्नं, कर्त्तव्यं जैनजातिषु । गुणकर्मविभागेन, जैनजातिविभागता ॥
३५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org