SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ नीतियोगः ] ३३५ मयि श्रद्धालवो जैनाः, सम्यक्त्वं यान्ति भक्तितः । चतुर्विधस्य संघस्य, रागिजैना मम प्रियाः ॥ जीविकावृत्तिसाहाय्यं, जैनैः कृत्वा परस्परम् । यथा जैनोन्नतिर्भूयात्तथा कार्य विशेषतः ॥ यद्यत्काले च यद्देशे, यथत्कर्तव्यकर्म तत् । सर्वजैनैर्विधातव्यं, नैकान्तः सर्वकर्मसु ॥ गृहिधर्मा असंख्याता, ज्ञातव्यास्ते विवेकतः । अनुक्ता गृहिधर्मास्तु, भक्त्या जानन्ति योगिनः ॥ ३३८ लाभालाभौ विदित्वा तान्, सर्वशक्तिगुणालयाः । जैनास्तु स्वाऽधिकारेण कुर्वन्ति क्षेत्रकालतः ॥ मदुक्तसर्वयोगानां, पूर्णविश्वासमन्तरा । आत्मज्ञानी भवेनैव, कोऽपि सत्यं निबोधत ॥ अजैनीभूय यः कोऽपि निश्चयव्यवहारतः । विनाशं न करोत्येव, रागद्वेषादिकर्मणाम् ॥ जैनं गुरुं विना कोऽपि, ज्ञानी भक्तो न जायते । सत्यधर्मी भवेन्नैव, जैनधर्माश्रयं विना ॥ ३३९. Jain Education International ३३६ For Private & Personal Use Only ३३७ ३४० ३४१ वेदागमस्य वेताऽपि, जैनत्यागिगुरुं विना । आत्मान्नतिं न संयाति, मदीयाऽऽज्ञेति शाश्वती ॥ ३४३ साधूनां सद्गुणाञ्च वैयावृत्यं सुभावतः । कुर्वन्ति ते जनाः सम्यग्ज्ञानं यान्ति न संशयः ॥ सेवाभक्तिं विना नृणामात्मज्ञानं न जायते । तथा ज्ञानस्य पाकाय, विश्व सेवोपकारिणी ॥ जैनधर्मसमो धर्मो, न भूतो भविष्यति । यमाराध्य पशुर्देवो भवेदात्मविकासतः ॥ ३४२. ३४४ ३४५ ३४६ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy