SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ९६ आपत्काले समायाते, जीवनादिप्रवृत्तयः । आपद्धर्मानुसारेण, सेव्या जैनैर्यथायथम् ॥ कर्मणां वैपरीत्येन, तत्काले नैव दोषता । धर्मार्थ जीवनं धार्य, सर्वजैनैः प्रयुक्तितः ॥ सर्वजातीय सज्जैनैधर्य धर्माय जीवनम् । मुख्यः सर्वाऽवतारेषु, सर्वत्र जैनमानवः ॥ सर्वजातीय जैनानां, जीविका सर्वहेतुषु । प्रवृत्तिर्व्यवहारेण, निर्दोषा धर्म्यनीतितः ॥ शक्तिमन्तो हि जीवन्ति, नैव जीवन्ति दुर्बलाः । शक्तिप्रदेषु मार्गेषु गन्तव्यमप्रमादतः ॥ शक्तीनां तत्र साम्राज्यं, यत्र धर्मस्य जागृतिः । सर्वोपायैरतः साध्या, जाग्रद्रूपेण शक्तयः ॥ जैनानामुन्नतिः साध्या, विद्यादिसर्वशक्तिभिः । तत्तत्कार्येषु संघस्य, भक्तिरेव शुभप्रदा ॥ अद्रष्टव्यमुखाः पापा, जैनधर्मस्य रोधकाः । चतुर्विधस्य संघस्य, वैरिणो दुष्टबुद्धितः ॥ जैनधर्मस्य शत्रूणां प्रतिरोधः स्वशक्तितः । कर्त्तव्यः सर्वसज्जैनैर्देशकालाऽनुसारतः ॥ निन्दाऽवज्ञादिकर्तारः, सद्गुरूणां विशेषतः । तेषां रोधः प्रकर्तव्यः, सर्वसंघस्य शक्तिभिः ॥ प्रत्युत्तरैर्निरोद्धव्या, नास्तिकानां कुयुक्तयः । पश्चास्वं न कदा सेव्यं धर्म्यवादे स्वशक्तितः ॥ " शक्तिदायक मन्त्राणां, यंत्राणाञ्च रहस्यतः । जैनधर्मोन्नतिः साध्या, निश्चयव्यवहारतः ॥ Jain Education International [ पञ्चमाध्याये For Private & Personal Use Only २९९ ३०० ३०१ ३०२ ३०३ ३०४ ३०५ ३०६ ३०७ ३०८ ३०९ ३१० www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy