________________
२८७
२८८
नीतियोगः ] जैनधर्मप्रवृद्वयर्थ, सर्वस्वाऽर्पणकारकाः । गृहस्था गुरवो ज्ञेया, ब्राह्मणा गुणकर्मतः ॥ जैनधर्मोपदेष्टत्वावर्णानां ब्राह्मणो गुरुः । जैनब्राह्मणसंघस्य, सेवा कार्याऽतिरागतः ॥ ब्राह्मणा यत्र पूज्यन्ते, जैनधर्माऽभिमानिनः । तत्र सर्वोन्नतिव्यक्तिर्भवेत्किश्चिन्न संशयः ॥ सर्वजातीयविद्यानां, पाठकैर्जनमाहनैः।। जैनधर्मस्य शास्त्राणां, पठन पाठनं सदा ॥ कर्तव्यं स्वाऽधिकारेण, जीविकादिकसाधनैः । जैनधर्मप्रचाराय, यतितव्यं सुयुक्तिभिः॥ परमेष्ठिमहामन्त्रो, जाप्यो ध्येयश्च माहनः । परब्रह्ममहावीरं, मां ध्यात्वा सर्वकोविदः ॥ आपत्काले तु सर्वेषां, ब्राह्मणादिमनीषिणाम् । व्यवहारोऽपवादेन, घटते जीवनादिकः ॥ व्यापारकृषिकर्माद्यैः, पशूनां पालनादिभिः । वैश्यैराजीविकाकर्म, कर्त्तव्यं यंत्रकर्मभिः ॥ देशकालाऽनुसारेण, व्यापारकृषिकर्मणाम् । कर्त्तव्या संस्कृतियोग्या, चतुर्वर्गसुसाधकः ॥ कर्त्तव्यं च गवादीनां, पालनं योग्यकर्मभिः । जीवहिंसा सर्वदेशेषु, निषेध्या सर्वशक्तिभिः ॥ सर्वजातिमनुष्याणां, लाभार्थ पशुरक्षणम् । सर्वत्र सर्वखण्डेषु, कर्त्तव्यं सर्वमानवैः ॥ शूद्रजैनैः सदा सेवा, कर्मभिश्चाऽन्यकर्मभिः। आजीविका प्रकर्त्तव्या, सर्ववर्गप्रसाधकैः ।।
२९२
२९४
२९६
२९७
२९८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org