SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ २७ [ पञ्चमाध्याये आजीविका तु शस्त्रायैः, क्षत्रियाणां भवेत्सदा । शो शास्त्रादिभिः सम्यक् कथ्यन्ते क्षत्रियाः शुभाः॥ २७५ क्षत्रियाणां भवेद्धयं-युद्धेषु जीवनं शुभम् । जैनसाम्राज्यरक्षार्थ, जेना युद्धेषु तत्पराः ॥ २७६ स्थातव्यं न विना शस्त्रजैनधर्मार्थरक्षकैः । जैनधर्मस्य रक्षार्थ, तेषां मृत्युः शुभंकरः ॥ जैनधर्मस्य रक्षार्थ, जैनानां रक्षणाय च । धर्थयुद्धेषु या हिंसा, सा हिंसा नैव कथ्यते ॥ क्रौर्य शौर्यञ्च पुण्याय, जैनानां क्षात्रधर्मतः । धर्मस्थापनरक्षायै, स्वर्गसिद्धथै च तन्मतम् ॥ अन्यधर्मिजनैः शरैः, साई श्रेष्ठाऽतिशूरता। राज्यभूम्यादिरक्षार्थ, जैनानां कर्मयोगिनाम् ॥ . २८० धर्म सर्वकलायोगः, रक्षन्ति क्षत्रियाः कलौ । मामहन्तं हृदि ध्यात्वा, ते ब्रजन्ति शिवश्रियम् ॥ २८१ अल्पदोषमहालाभं, विज्ञाय क्षात्रकर्मणि । धर्मार्थकाममोक्षार्थ, स्थातव्यं क्षत्रियैर्जनैः ॥ परब्रह्मस्वरूपं मां, जानन्ति सत्यविद्यया । ज्ञातव्या ब्राह्मणास्तस्मादिद्याभिर्जीविनश्च ये॥ सर्वजातीयकन्या तु, ब्राह्मणानां प्रकल्पते । देशकालाऽनुसारेण, शुभा जीवनवृत्तयः ॥ पूर्ववज्जैनधर्मस्य, पालका धर्मवर्द्धकाः । संप्रति विद्यमाना ये, ब्राह्मणाः शास्त्रपारगाः॥ धनधान्यस्त्रिभिर्वणः, पोष्या धर्माऽनुरागतः। गुणकर्मविभागेन, वर्णसंस्कारकारकाः ॥ २८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy