SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ____२६३ नीतियोगः ] संघस्यैक्यं समाराध्यं, सर्वोपायैः कलौ सदा । संघस्यैक्येन जैनानां, स्थितिविश्वोपकारिणी ॥ परार्थस्वार्थलाभाय, विद्याव्यापारकर्मभिः। .. गमनं सर्वदेशेषु, जैनानां वृद्धिकारकम् ॥ २६४ धर्मकर्मस्वनेकान्तो, द्रव्यादिगौणमुख्यतः। लाभाऽलाभौ च विज्ञाय, कर्त्तव्यं कर्म युक्तितः ॥ २६५ महासंघस्य संमेलः, कर्त्तव्यः प्रतिवत्सरम् ।। जनसंख्यादिवृद्धयर्थ, कर्त्तव्यं योग्यकर्म तत् ।। निरासक्त्या तु निर्दोषा, गृहिजैनाः स्वकर्मसु । मत्वैवं सर्वसज्जैनैः, पाल्यो धर्मो विवेकतः॥ २६७ देशधर्मसमाजानां, रक्षाऽस्ति क्षात्रकर्ममिः। क्षत्रिया यत्र विद्यन्ते, तत्र धर्मस्य रक्षणम् ॥ मद्धर्मपरिरक्षार्थ, कलौ जैना रणाङ्गणे । दुष्टानां शक्तिनाशार्थ, युद्धयन्ति शस्त्रसाधनैः ॥ २६९ शत्रोः पराजयं कृत्वा, महीं भुञ्जन्ति शक्तितः । ‘मृत्वा भवन्ति ते स्वर्गे, देवा भोगपरायणाः ॥ धर्म्ययुद्धे न युद्यन्ते, क्लीवास्ते धर्मदूषकाः । जैनधर्माहतां यान्ति, क्षत्रियाः क्षात्रकर्मभिः ॥ २७१ वीर्यहीनैर्न लभ्योऽहं, धर्मदेशविनाशकैः। महाधोऽल्पदोषश्च, क्षत्राणां धर्म्यकर्मसु ॥ बालस्त्रीधमिलोकानां, रक्षार्थ क्षात्रकर्मसु । निर्दोषत्वं महाधर्मो, ज्ञातव्यं क्षत्रियैरिति ॥ २७३ दोषा अपि गुणायन्ते, दोषायन्ते गुणास्तथा । सत्त्वरजस्तमाकर्म-जाता द्रव्याद्यपेक्षया । २७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy