SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ नीतियोगः ] मंत्राणां सर्वतन्त्राणां, यंत्राणाञ्च स्वशक्तितः । उपयोगो जनैः कार्यो, जैनधर्मस्य वृद्धये ॥ जैनानां रक्षणे रक्षा, जैनधर्मस्य संभवेत् । धर्म्ययुद्धेन जैनानां, रक्षायां भक्तिरुत्तना ॥ विश्वासो नैव कर्तव्यो, जैनधर्मस्य वैरिणाम् । सावधानतया स्थेयं, जैनैः सर्वत्र सर्वदा ॥ अन्यधर्म गते जैने, जैन संघेषु शोकना । जायेत तीर्थनाशस्य, तुल्या धर्माऽभिमानतः ॥ तदा जैनमहासंघ- प्रगत्यर्थं प्रवृत्तयः । क्रियन्ते सर्वसंवेन, योगसत्ताधनादितः ॥ अन्यधर्मगता जैना, बोधसाहाय्यशक्तितः । जैनसंवे पुनः स्थायाः, प्रायश्चित्तादिपूर्वकम् ॥ काम्यफलस्य संत्यागात्, सर्ववर्णैः स्वकर्मसु । लोकसंग्रहसंदृष्टा, ज्ञातव्या स्वाधिकारिता ॥ निर्बला नैव जीवन्ति, कर्तव्यकर्ममोहिनः । कलौ निर्बललोकानां पारतन्त्र्यं सदा मतम् ॥ निर्बलानां कुतो धर्मो, दारिद्रयं नीचता तथा । कलौ संघबलेनैव, स्वबलेन च जीवनम् ॥ विजेष्यन्ते कलो धर्माः, कलिशक्तिसमन्विताः । कलिधर्मस्य मुख्यत्वं यत्र तत्र जयो महान् ॥ क्षेत्रकालानुसारेण, मज्जैनाः कर्मयोगिनः । आप्नुवन्ति न दौर्बल्यं, मच्छ्रद्वा भक्तिसंयुताः ॥ सर्वकर्मप्रकर्त्तारो, महावीरेति जापतः । जैना विधर्मिभिः सार्द्ध, पश्चाद्भावं भजन्ति नो ॥ " Jain Education International For Private & Personal Use Only ९७ ३११ ३१२ ३१३ ३१४ ३१५ ३१६ ३१७ ३१८ ३१९ ३२० ३२१ ३२२ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy