SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ नीतियोगः ] संरक्षणं शरण्यानां, कर्त्तव्यं स्वात्मभोगतः । कापटयं नैव कर्त्तव्यं, गुरोरग्रे विवेकिभिः ॥ २३९ साधुबालागनारक्षा, कर्तव्या क्षत्रियैः सदा। विश्वोपकारिणो नैव, हन्तच्या भूतिमिच्छता॥ सवस्वाऽर्पणसवुया, नैष्टिकश्रद्धया तथा । सर्वकार्याणि सिद्धयन्ति, नैवाऽशक्यं जगत्त्रये॥ उद्योगात्सर्वजीवानां, स्वकर्माऽनुसारतः। यथायोग्यं फलं बोध्यं, मदुक्तं नान्यथा कदा॥ २४२ दुःखिना याचनाभङ्गः, कर्तव्यो नैव शक्तिषु । प्रदेषो नैव कर्तव्यः, सत्यज्ञानप्रदातरि ॥ २४३ मैत्र्यादिभावना भव्या, भावनीया प्रयत्नतः । स्वात्मशक्त्या सदा : नः, कर्तव्यो धर्यकर्मसु ॥ १४ मैत्रीप्रमोदमाध्यस्थ्य-कारुण्यशुभभावनाः। भावयध्वं जना भन्या, आत्मशुद्धिप्रकाशिकाः ॥ २४५ निश्चयव्यवहाराभ्यां, मैयादिभावनाः शुभाः। भावयन्तो जना भव्या, व्रजन्ति परमं पदम् ॥ २४६ मैत्र्यादिभावनारूपो, यस्यात्मा जायते स्वयम् । जगद्गुरुर्भहानात्मा, सदगुणैर्जायते भुवि ॥ मनोजयाय मैत्र्यादि-भावना उत्तमा हृदि । ध्यातव्या वासनानाश-हेतवे भव्यमानवैः ॥ प्रमादो दुःखदः शत्रुर्जतव्यः स्वात्मशक्तितः । अप्रमादान्मतो मोक्षो, भवश्चैव प्रमादतः ॥ निद्रां विहाय भो लोकाः, शुभकर्ममदाश्रयाः। कुर्वन्तु दुष्कृतं त्यक्त्वा, ब्रजन्तु चाऽव्ययं पदम् ॥ ५० २४७ . . . . . . . . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy