SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ९० अहिंसारूपसद्वेदैरागमैश्च महीतले । मद्धर्मः सर्वजीवानां योगक्षेमादिकारकः ॥ , " तथ्यं पथ्यं प्रियं वाक्यं वदन्ति ज्ञानयोगिनः । सत्यान्नास्ति परो धर्मः, सत्ये धर्माः प्रतिष्ठिताः ॥ प्रामाण्यमात्मवद्वार्य, ब्रह्मशक्तिविवर्द्धकम् । अनीतिकार कादण्ड्याः, संरक्ष्या नीतिधारकाः ॥ दुष्टेभ्योऽप्यधिका शक्तिः, प्रापणीया प्रयत्नतः । आत्मायता यतो दुष्टा, भवन्ति सर्वधर्मिणाम् ॥ सतां सङ्गेन मद्भक्तैः प्राप्तव्याः सभ्यसद्गुणाः । अनार्याणां न विश्वासः कर्त्तव्यः स्वात्मरक्षकः ॥ " [ पञ्चमाध्याये Jain Education International For Private & Personal Use Only २२७ २२८ २२९ २३० " लघुभावः सतामग्रे, धारणीयः प्रयत्नतः । महत्त्वं दुष्ट लोकेभ्यो, रक्षणीयं स्वशक्तितः ॥ गुणानां दुर्गुणानाञ्च, हृदि सम्यकपरीक्षणम् । कर्त्तव्यं प्रत्यहं भव्यैरन्तः शक्तिप्रवर्द्धकम् ॥ सहायता स्वकीयानां स्वाश्रितानाञ्च शक्तितः । कर्त्तव्या मज्जनैः प्रीत्या, स्वाऽधिकारविवेकिभिः ॥ २३४ स्वोपकारिमनुष्येषु कर्त्तव्या स्वात्मदानता । कर्त्तव्या न कदा भव्यैद्रोहता स्वोपकारिषु ॥ अन्यायो नैव कर्त्तव्य, उत्सर्गमार्गतः कदा | मनोवाक्कायतो न्यायः, सेव्यः सर्वजनैर्भुवि ॥ स्वप्रतिज्ञा सदा पाल्या, मित्रैः सार्द्धं च मित्रता । औचित्यं सर्वलोकेषु, धर्तव्यं व्यवहारतः ॥ मर्मः सर्वलोकेषु जागर्ति सर्वरक्षकः । सर्वजातिविपत्तौ च रक्षति मत्स्वरूपकः ॥ " २३१ २३२ २३३ २३५ २३६ २३७ २३८ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy