________________
२१६
नीतियोगः ] हृदि यस्य दया नास्ति, धर्मस्तु नैव तद्वदि । अहिंसायाः प्रतिष्ठायां, सर्वे धर्माः प्रतिष्ठिताः ॥ २१ विश्ववत्तिमनुष्याणां, दुःखनाशाय मानवैः । क्रियते या प्रवृत्तिः सा, दयैव साध्यबुद्धितः ॥ अहिंसा सर्वलोकानां, दुःखपीडाविनाशिका । देशसंघसमाजानां, न्यायरूपा स्वभावतः ॥ २१७ विश्वदेशसमाजानां, सर्वजातीयदेहिनाम् । श्रेयोऽर्थ क्रियते या सा, दयैव विश्वशान्तिदा ॥ २१८ निश्चयव्यवहाराभ्यां, गौणमुख्यविभेदतः। महालाभविचारेण, अहिंसापालनं शुभम् ॥ २१९ दया यत्र प्रभुस्तत्र, महावीरोऽस्ति भावतः । ज्ञात्वैवं सर्वजीवानां, रक्षा कार्या मनीषिभिः ॥ २२० दयारूपं महायज्ञं, कुर्वन्ति भव्यमानवाः । सर्वजीवदयाधर्मान्मेघवृष्टिः शुभा भवेत् ॥ यत्र देशे दया नास्ति, समाजे स्वजने तथा । उत्पाता दुःखदास्तत्र, भवन्ति पापकर्मतः ॥ २२२ नष्टा वंशा नृपादीनां, हिंसापापाऽतिरेकतः । इहामुत्र महापापाः शान्तिं यान्ति न सर्वथा ॥ २२३ स्वार्थबुद्धिवशाल्लोका, अन्यान् हिंसन्ति सर्वथा । जीवन्तोऽपि मृता एव, दुर्गतिदुःखवेदिनः॥ अधिकारो न कस्थाऽपि, प्राणिदेहविनाशने । यदुत्पत्ती न सामर्थ्य, तद्विनाशे तु कः क्षमः॥ अहिंसा बाह्ययोगेन, साधनीया प्रयत्नतः। अहिंसा शुद्धभावेन, साध्या मैत्र्यादिभावतः॥ २२६
२२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org