SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ८८ [ पञ्चमाध्याये परस्परसहायस्तु, महायज्ञः प्रकीर्तितः। सर्वोत्तमो महायज्ञः, स्वाऽर्पणं धर्मरक्षणे ॥ २०३ चतुर्विधमहासंघो, यज्ञ एव न संशयः। सर्वजीवदयायज्ञान्मेघवृष्टिः प्रजायते ॥ २०४ सर्वजीवस्य रक्षैव, महायज्ञः सतां मतः । हिंसामथा न यज्ञाः स्युः, पश्वादिघातकारकाः।। अहिंसा सर्वविश्वस्य, सत्यधर्मोऽस्ति मर्वथा। निश्चयव्यवहाराभ्यां, सेव्यो धर्मो महाजनैः ॥ २० अधर्मस्य विनाशश्च, दुष्टन्यायनिवारणम् । अहिंसैव मया ख्याता, लोकानां स्वाऽधिकारतः ।। २०७ सर्वदेशीयलोकानां, लाभायाऽतिप्रयत्नतः । वृषभाणां गवां रक्षा, कर्त्तव्या भव्यमानवैः॥ -२०८ दुष्कालादिप्रसङ्गे तु, जनैर्वित्तादिदानतः । पालनं गोमहीषीणां, कर्त्तव्यं स्वस्वसद्मनि ॥ सूनास्थाननिषेधेन, पशुपक्ष्यादिरक्षणम् । देशराज्यसमाजानामुपकाराय जायते ॥ देशराज्यसमाजानां, धनं पश्वादिकं शुभम् । तन्नाशे देशलोकानां, नाशो भवति सर्वतः ॥ पशुपक्ष्यादिसंरक्षा, यत्र देशे भवेत्सदा । तत्र शन्तिर्भवेत्पुष्टिस्तुष्टिश्च सर्वसम्पदः ॥ पशुपक्ष्यादिजीवानां, जीवनं स्वात्मवज्जनैः। रक्षितव्यं समाजानां, सर्वजातीयशक्तितः ॥ आर्या धर्म न मुञ्चन्ति, गवादिरक्षणात्मकम् । दयां विना न धर्मोऽस्ति, ज्ञातव्यं सर्वमानवैः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy