________________
८७
नीतियोगः ] मजापोऽस्ति महायज्ञो, यज्ञो योगाङ्गसेवनम् । शुभाचारः सदा यज्ञो, यज्ञः पूजा जिनेशितुः॥ धर्मशास्त्रपरिपाठो, यज्ञश्च धर्मिसेवनम् । मातृपित्रादिसंसेवा, यज्ञश्च धर्म्यवृत्तयः॥ गुरोः सेवा महायज्ञस्तथा गुरुकुलादयः । ज्ञानयज्ञे हि लीयन्ते, सर्वयज्ञाः स्वभावतः ॥ यज्ञोऽतिथेः सदा सेवा, यज्ञाः परार्थवृत्तयः । धर्म्यदानं महायज्ञः, प्राणिनां रक्षणं तथा ॥ चातुर्वर्ण्यस्य कर्माणि, यज्ञरूपाणि जानताम् । जैनधर्मस्य संरक्षा, यज्ञः सर्वोत्तमः स्मृतः ॥ जैनानां पोषणं यज्ञो, यज्ञः सदोषधालयः । चतुर्विधमहासङ्घ-सेवा यज्ञोऽभिगीयते ॥ द्रव्ययज्ञः सदा साध्यो, राज्यादिधर्मरक्षणम् । स्वीययोग्यानि कर्माणि, गीयन्ते यज्ञरूपतः ॥ व्यवस्था सर्वविश्वस्य, यैरुपायैः प्रजायते । धर्मोपाया महायज्ञाः, सद्विचारप्रवृत्तयः॥ कर्मयोगो महायज्ञो, ज्ञानयोगस्तथा परः। दर्शनज्ञानचारित्र-वीर्ययज्ञाः शुभाः सदा ॥ साहाय्यं धर्मिलोकानां, पापमार्गनिवारणम् । षडावश्यककर्माणि, यज्ञाः स्युर्मोक्षदायकाः॥ अनेकधर्म्ययज्ञानां, कृतिनिष्कामबुद्धितः । मदाज्ञा सैव बोद्धव्या, मत्पदं यान्ति यज्ञतः ॥ सद्धर्मव्यवहारोत्थ-सर्वकर्त्तव्यकर्मसु । परस्परसहायेन, जैनसंघः प्रवर्त्तते ॥
१९८
२००
२०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org