________________
१.००
८६
[ पञ्चमाध्याये असत्संगो न कर्त्तव्यः, शुद्धबुद्धिप्रणाशकः । जनेतरेभ्यो मद्बोधो, देयो मद्भक्तिकारकैः ॥ जीवन्ति न कलौ जैना, मनोवाकायदुर्बलाः । स्वाश्रयिणः स्वतन्त्राः स्यु ना धर्मप्रभावकाः॥ महासंघस्य नाशिन्यो, बाललग्नादिरीतयः । त्याजनीयाः सदा जैनैर्मधर्मस्य प्रसाधकैः ॥ १८१ अप्रशस्यकषायाणां, त्यागः सन्न्यास उच्यते । प्रशस्यकर्मणां रागो, वैराग्य एव संमतः ॥ १८२ क्षात्रव्यापारविद्यादि-वृत्तिभिर्जीवनं वरम् । कर्तव्या न कदा याच्जा, कर्त्तव्या नैव दीनता॥ १८३ साताऽसातादिका ये ये, विपाकाः कर्मसंभवाः । समत्वेन सदा भोग्या, वैदेहभावधारकैः ॥ १८४ शुद्धवुद्धया स्वकर्माणि, कर्त्तव्यानि विशेषतः। भेतव्यं न कदा पापाद्धर्मकर्मप्रवृत्तिषु ॥ कृतश्च क्रियते यद्यत्कृत्वा सर्व मदर्पणम् । जैना निर्लेपतां यान्ति, स्वार्थादिधर्मसाधकाः ॥ विश्वसमाजसेवायां, यत्नः कार्यो विशेषतः । अग्रणीत्वं सदा कार्य, समाजराज्यकर्मभिः ॥ उपग्रहोऽस्ति जीवानामखिलानां परस्परम् । जीवाजीवैश्च जीवन्ति, सर्वार्थ स्वाऽर्पणं मतम् ॥ १८८ संरक्ष्या जीवनोपाया, देशकालाऽनुसारिभिः । कर्मभिः सर्वजातीय-जैनैस्तु पञ्चमारके ॥ १८९ सर्वजातीयसद्यज्ञा, विधातव्या विवेकतः । सर्वकर्तव्यकर्माणि, गीयन्ते यज्ञरूपतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org